Enter your Email Address to subscribe to our newsletters

शिमलानगरम्, २७ फरवरीमासः (हि.स.)। मुख्यमंत्री सुक्खू भारत–मातु: सुपुत्रं तथा प्रखर–राष्ट्रभक्तेः प्रतीकस्य अमर–बलिदानीन: चंद्रशेखर-आज़ादसृय बलिदान–दिवसे सादर–श्रद्धांजलिं अर्पितवान् तथा शत-शत-नमनं कृतवान्।सः उक्तवान् – चंद्रशेखर-आजाद: हसन् हसन् मातृभूमेः स्वातंत्र्याय सर्वस्वं अर्पितवान् अन्तिमं क्षणपर्यन्तं ‘आजाद’ भवितुम् प्रतिज्ञां पालनं कृतवान्। तस्य त्यागं तेजस्वी जीवनम् च युग-युग-पर्यन्तं देशभक्तेः प्रेरणां दास्यति।
मुख्यमंत्री सुक्खू वीर–स्वतंत्रता–संग्राम–सैनिकाय संसदीय–परंपराणां संवाहकाय तथा लोकसभा–प्रथम–अध्यक्षाय जी.वी.मावलंकराय पुण्यतिथौ शतश: नमनं अर्पितवान्।
सः उक्तवान् – जी.वी.मावलंकर: भारतीय–लोकतन्त्रस्य आधारशिलायै दृढतां प्रदत्तवान् तथा संसदीय–आचरणं, अनुशासनं च मर्यादायाः उच्चतम्–परंपराः संस्थापितवान्। लोकतांत्रिक–मूल्येषु तेषां प्रतिबद्धता सर्वेषां कृते शाश्वत–प्रेरणास्रोत: भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता