उत्तराखण्डस्य लोक–संस्कृतेः मनोहरं दर्शनं प्रकटितम्
देहरादूननगरम्, २७ फरवरीमासः (हि.स.)। लोक भवन–स्थिते वसन्तोत्सव–२०२६ इत्यस्य प्रथमदिने शुक्रवासरे सांस्कृतिक–सन्ध्यायाः आयोजनं कृतम्। अस्मिन् अवसरे उत्तराखण्डस्य लोक–संस्कृतेः मनोहरं सजीवं दर्शनं प्रदर्शितम्। राज्यपालः लेफ्टिनेंट जनरल गुरमीतसिंह: (स
राज्यपाल लोक भवन, देहरादून में आयोजित वसंतोत्सव-2026 के प्रथम दिवस पर शुक्रवार को सांस्कृतिक संध्या  में कलाकारों के साथ।


देहरादूननगरम्, २७ फरवरीमासः (हि.स.)। लोक भवन–स्थिते वसन्तोत्सव–२०२६ इत्यस्य प्रथमदिने शुक्रवासरे सांस्कृतिक–सन्ध्यायाः आयोजनं कृतम्। अस्मिन् अवसरे उत्तराखण्डस्य लोक–संस्कृतेः मनोहरं सजीवं दर्शनं प्रदर्शितम्। राज्यपालः लेफ्टिनेंट जनरल गुरमीतसिंह: (से.नि.) दीप–प्रज्वलनं कृत्वा कार्यक्रमस्य औपचारिकं शुभारम्भं कृतवान्।

संस्कृति–विभागेन आयोजिते अस्मिन् कार्यक्रमे उत्तराखण्डस्य समृद्धाः लोक–परम्पराः तथा सांस्कृतिक–विरासत् प्रकटिताः। कुमाऊँनी–छपेली–लोकगीतं “गोरख्या चेली भागुली”, गढ़वाली–लोकगीतं “मेरा बाजू रंगा रंग बिचारी”, जौनसारी–छोड़़े–लोकगीतं “को देश को बटोई”, थारू–जनजातीयं “खेती–खलिहान” लोकगीतं “देखो गाँव के किनारे”, तथा कुमाऊँनी–बैठकी–होली “मेरी नथ गढ़ दे”—इत्यादिनां पारम्परिक–गीत–नृत्यानां माध्यमेन राज्यस्य लोक–संस्कृतेः जीवन्तं चित्रणं कृतम्।

कलाकाराणां रङ्गारङ्ग–प्रस्तुतयः दर्शकान् मंत्रमुग्धान् अकरोत्। उपस्थितः जनसमूहः उत्साहेन कार्यक्रमस्य आस्वादनं कृतवान्। अस्मिन् कार्यक्रमे राज्यस्य सांस्कृतिक–विविधता तथा लोक–जीवनस्य समृद्धिः सुस्पष्टतया प्रदर्शिता।

अस्मिन् अवसरे प्रथम–महिला गुरमीत-कौर, राज्यपाल–सचिवः रविनाथ: रामन, संस्कृति–सचिवः युगलकिशोरपंत:, अपर–सचिवा रीना जोशी, उद्यान–निदेशकः एस.एल.सेमवाल:, तथा अन्ये गणमान्याः व्यक्तयः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता