श्री–काशी–विश्वनाथस्य गौणोत्सवस्य साक्षी अभवत् काशी; बाबाश्री–विग्रहे गुलाल–अर्पणे भक्तानां सम्मर्द: अभवत्
वाराणसीनगरम्, २७ फरवरीमासः (हि.स.)। फाल्गुनमासस्य शुक्लपक्षे एकादश्यां (रङ्गभरी–एकादशी) शुक्रवासरे सायं काशीनगरी शिवभक्तैः सह देशी–विदेशी–पर्यटकैश्च समाकीर्णा अभवत्। काशीपुराधीश्वरस्य बाबा–विश्वनाथस्य गौणोत्सवस्य साक्षित्वं कर्तुं जनसागरः आगत:। टेढ
रंगभरी एकादशी


रंगभरी एकादशी


रंगभरी एकादशी


वाराणसीनगरम्, २७ फरवरीमासः (हि.स.)। फाल्गुनमासस्य शुक्लपक्षे एकादश्यां (रङ्गभरी–एकादशी) शुक्रवासरे सायं काशीनगरी शिवभक्तैः सह देशी–विदेशी–पर्यटकैश्च समाकीर्णा अभवत्। काशीपुराधीश्वरस्य बाबा–विश्वनाथस्य गौणोत्सवस्य साक्षित्वं कर्तुं जनसागरः आगत:। टेढ़ीनीम–स्थितात् पूर्व–महन्त–स्मृतिशेष–स्व.कुलपति–तिवारी–महाभागस्य आवासात् ‘गौरी–सदनिका’ इत्यस्मात् ज्ञानवापी–क्रॉसिङ्ग–स्थितं श्रीकाशी-विश्वनाथ-धाम–द्वारं (द्वार–संख्या ४) यावत् श्रद्धालूवृन्दं शिव–परिवार–दर्शनाय उत्कण्ठितम् आसीत्।

राजसी–वैभवेन रजत–पालक्यां विराजमानः वररूपेण सुसज्जितः बाबा–विश्वनाथः, दुल्हनिरूपा जगज्जननी गौरा, तयोः मध्ये प्रथम–पूज्यः गणेशः—एतेषां रजत–विग्रहाणां दर्शनमात्रेण श्रद्धालव: “हर–हर महादेव” इति घोषं कुर्वन्तः आह्लादिताः अभवन्। पूर्वं गुजराती–शैलीय–अङ्गरखु–काठियावाड़ी–कंचुक–धारिणं, केरलीय–परम्परागत–धौत (मुंडू)–परिधानं च कृत्वा बाबा–विग्रहः राजसी–भावेन पालक्यां स्थापितः। पार्श्वे गुजराती–बन्धनी/पटोला–दक्षिण–भारतीय–काञ्चीवरम्–साटिका–परिधाना माता–गौरा, तयोः अंकस्थितः गणेशश्च उपवेशितः। पालकी–विशेष–पूजां महन्त–परिवार–प्रतिनिधिना महन्त–पं.वाचस्पति–तिवारी–महाभागेन कृतम्।

सायं ५–०९ वादने यदा मन्दिरात् अर्चक–दलम् महन्त–आवास-वीथीम् प्राविशत्, तदा समग्रं वातावरणं हर–हर–महादेव–निनादैः प्रतिध्वनितम्। कपूर–महारर्तिक्यानन्तरं दीप्त–दीप–युग्मधारणेन पं.वाचस्पति–तिवारी–महाभागेन पालकी–उत्थापन–संकेतः प्रदत्तः। महन्त–परिवार–सदस्यैः पालकी–उत्थापने सति सर्वतः अबीर–गुलाल–पुष्प–वर्षा आरब्धा। शङ्खनादेन सह अग्रे डमरू–दलम्, पश्चात् पालकी—इत्येवम् यात्रा मन्दिराभिमुखी प्रवृत्ता। टेढ़ीनीम–स्थितात् नवग्रहेश्वर–महादेव–मन्दिरात् अग्रे विष्णु–कसेर–निवासात् ५१–किलोग्राम–पाटल–पक्ष्म–वृष्टिः कृताभवत्। जनाः पालकी–स्थित–शिव–परिवार–विग्रहं स्पृष्ट्वा गुलाल–वर्षणे सम्मर्दम् अकुर्वन्; गृह–छद्मभ्यः, बारज–मण्डपैश्च महिलाभिः पाटल–पक्ष्मा: निरन्तरं वृष्टाः।

एतादृशी गुलाल–वृष्टिः अभवत् यत् जनानां परस्पर–परिचयः अपि दुर्लभः अभवत्। भूमेः आकाशपर्यन्तं गुलालमेव दृश्यते स्म। महन्त–आवासात् वीथीभ्यः आरभ्य स्वर्ण–शिखर–मुक्ताङ्गण–गर्भगृह–पर्यन्तं सर्वत्र गुलालस्य स्थूल–स्तरः निपतितः। एतेन सह काशीवासिभिः प्रतीक–रूपेण होली–उत्सवे रङ्ग–क्रीडायाः हास–विनोदस्य च अनुमतिः अपि बाबा–समक्षं स्वीकृता।

टेढ़ीनीम–स्थितात् महन्त–आवासात् बाबा–माता–पार्वत्योः चल–प्रतिमे साक्षी–विनायकं ढुंढिराज–विनायकं च अतिक्रम्य मन्दिरं प्रति नीतम्। प्रभाते तु चल–प्रतिमायाः पञ्चगव्य–स्नानं कृत्वा ६.३० वादने षोडशोपचार–पूजनं, लोकाचारः महारर्तिक्यश्च सम्पन्ना। ततः पूर्व–महन्त–गृहे दर्शनार्थं द्वार–उद्घाटनं कृतम्। अनन्तरं सुख–शान्ति–समृद्धि–प्रार्थनया भक्ताः अबीर–गुलाल–अर्पणार्थं पङ्क्तिबद्धाः अभवन्।

हिन्दुस्थान समाचार / अंशु गुप्ता