Enter your Email Address to subscribe to our newsletters

उत्तर प्रदेशै
आयोजिते एम टी-700 वल्र्ड टेनिस मास्टर्स टूरक्रीडायां
योगश कोहलेः वैश्विकश्रेण्यां 40इतोःपि भारते 1 प्रथमा श्रेणी
हिसारः, 27 फरवरीमासः (हि.स.)।
मेरठ नगरे उत्तरप्रदेशराज्ये एमटी 700 वर्ल्ड टेनिस मास्टर्स टूर इत्यस्याः प्रतियोगितायाः आयोजनं कृतम्, यस्मिन् देशविदेशेभ्यः आगताः अनेके वरिष्ठ टेनिस क्रीडकाः सहभागितां कृतवन्तः। हिसारनगरस्य वरिष्ठ टेनिस क्रीडकः योगेश कोहली अस्याम् प्रतियोगितायां स्वस्य उत्कृष्टक्रीडाप्रदर्शनं कृत्वा प्रतियोगितायाः पुरस्कारं स्वनाम्नि कृतवान्। एमटी 700 प्रतियोगितायां विजयानन्तरं सः भारतस्य क्रमाङ्क एक वरिष्ठ टेनिस क्रीडकः अभवत्।
एमटी 700 प्रतियोगिता टेनिस क्रीडायाः उच्चतमस्तरीया प्रतियोगिता मन्यते। वरिष्ठ टेनिस क्रीडायां 100 200 400 तथा 700 एमटी स्तरस्य प्रतियोगिताः भवन्ति, येषु विजयी क्रीडकानां विश्वक्रमाङ्कः निर्धारितः भवति। अस्मात् पूर्वं जनवरी मासे योगेश कोहली गुडगांव नगरे आयोजितां एमटी 400 प्रतियोगिताम् अपि जितवान्।
स्वस्य अस्याः उपलब्धेः विषये योगेश कोहली उक्तवान् यत् एषा विजयः तस्य कृते स्वप्नस्य साकारतायाः सदृशी अस्ति। अस्य अन्तरराष्ट्रीय प्रतियोगितायाः विजयेन योगेश कोहली भारतदेशे क्रमाङ्क एक तथा विश्वे चत्वारिंशततम स्थाने प्रतिष्ठितः जातः। योगेश कोहली हरियाणाराज्यस्य प्रथमः क्रीडकः अस्ति येन आईटीएफ मास्टर्स प्रतियोगितायां भारतस्य क्रमाङ्क एक स्थानं प्राप्तम्।
एतस्याः प्रतियोगितायाः विजयानन्तरं अस्मिन्नेव वर्षे रोम इटली नगरे भविष्यन्त्यां टेनिस विश्वचैम्पियनशिप प्रतियोगितायां चयनस्य तस्य प्रबल सम्भावना वर्तते।
योगेश कोहली हिसार नगरे गुरु जम्भेश्वर विश्वविद्यालयस्य टेनिस प्राङ्गणे अभ्यासं करोति तथा अन्यान् क्रीडकान् प्रशिक्षणं ददाति। सः गुजवि विश्वविद्यालयस्य कुलपतिं प्रो नरसी राम बिश्नोई तथा क्रीडा निदेशकं प्रति अभ्याससहयोगार्थं विशेषं कृतज्ञतां प्रकटितवान्।
हिन्दुस्थान समाचार