युवसु समाजं राष्ट्रं च भविष्य–दिशां नेतुं असीमा शक्ति: अस्ति — उपराज्यपालः
जम्मूनगरम्, २७ फरवरीमासः (हि.स.)। उपराज्यपालः मनोज सिन्हा शुक्रवासरे अवदत् यत् युवसु समाजं राष्ट्रं च भविष्यं प्रति नेतुं असीमा क्षमता निहिता अस्ति। सः सतत–विकासाय सन्तुलित–मानसिकताया: तथा साहसिनां नवप्रवर्तकाणां निर्माणे विशेषं बलं दातुं आह्वानं क
उपराज्यपाल सिन्हा ने श्रीनगर अंतरराष्ट्रीय हवाई अड्डे पर नागरिक एन्क्लेव के व्यापक विस्तार के लिए पीएम मोदी के प्रति किया आभार व्यक्त


जम्मूनगरम्, २७ फरवरीमासः (हि.स.)। उपराज्यपालः मनोज सिन्हा शुक्रवासरे अवदत् यत् युवसु समाजं राष्ट्रं च भविष्यं प्रति नेतुं असीमा क्षमता निहिता अस्ति। सः सतत–विकासाय सन्तुलित–मानसिकताया: तथा साहसिनां नवप्रवर्तकाणां निर्माणे विशेषं बलं दातुं आह्वानं कृतवान्।

सः अवोचत्—“सशक्ताः युवानः एव भविष्यस्य निर्माणं कुर्वन्ति। बौद्धिक–गाम्भीर्यम्, सृजनात्मक–शक्तिः तथा नवोन्मेषी–युवा–नेतृत्वं राष्ट्र–प्रगतये अनिवार्यम्।” उपराज्यपालः जम्मूविश्वविद्यालयेन आयोजितस्य अनन्यस्य द्विदिवसीय–युवा–महोत्सवस्य गूंज 2026 उद्घाटन–समारोहं सम्बोधितवान्। अयं महोत्सवः विविध–क्षेत्रेषु युवभ्यः भविष्य–निर्माणाय विशिष्टं मञ्चं प्रदास्यति—मनः शिक्षयिष्यति, शरीरं ऊर्जस्वलं करिष्यति, नवाचारं च प्रज्वलयिष्यति।

उपराज्यपालः अवदत् यदा युवानः स्वान्तः साहस–दीपं प्रज्वालयन्ति, दृढ–विश्वासेन च अग्रे गच्छन्ति, तदैव समाज–राष्ट्रयोः नूतनाः पन्थानः उद्घट्यन्ते। सः छात्रान् नवाचार–स्वीकरणाय, नूतन–अनुसन्धानाय, साहसिक–प्रयोगेषु प्रवृत्तये तथा राष्ट्र–निर्माण–द्वाराणां उद्घाटनाय आहूतवान्। “परम्पराः सन्मन्यन्ताम्, अतीतं आद्रियताम्, मूलैः सह संयुज्यताम्”—इति तेनोक्तम्। एतेन परिचयः, आत्मविश्वासः, आत्म–जागरूकता च सुदृढीभविष्यन्ति—यत् कश्चन कक्षापाठः पूर्णतया न शिक्षयितुं शक्नोति। शिक्षा केवलं ज्ञान–संग्रहः न, अपि तु कर्तव्य–संवेदनशीलानां प्रबुद्ध–नागरिकाणां निर्माणम्—इति सः प्रत्यपादयत्।

सः अवदत्—“सत्य–शिक्षा यूनः तादृशान् नूतनान् उत्तराणि समाधानानि च अन्वेष्टुं सज्जयति, यान् जगत् अद्यापि कल्पितुं न शक्नोति। छात्राः केवलं पदवीं ग्रहीतुं न, अपि तु संस्कृतिं पोषयितुं, नूतन–विचारान् अन्वेष्टुं, साहसिक–मार्गान् वरणीयान् कर्तुं, सामाजिक–प्रगतिं धैर्येण अग्रे नेतुं च परिसरेषु प्रविशन्ति।” तेन उक्तं यत् विश्वस्य परिवर्तन–वेगः अद्भुतः; तन्त्रज्ञान–विस्फोटेन शैक्षणिक–संस्थाः उद्योगाश्च समानरूपेण परिवर्तिताः। अतः अध्यापकाः स्व–उच्च–शिक्षा–परिसरान् नूतन–विचार–निर्माण–केन्द्राणि करोतु—“प्रयासाः पाठ्यक्रमात् परं वर्धन्ताम्; विषयान्तर–संवादः सजीवः भवतु; प्रत्येकं व्याख्यानं नूतन–सम्भावनानां द्वारं भवतु”—इति सः निर्दिष्टवान्।

अस्मिन् अवसरे उपराज्यपालः विश्वविद्यालयस्य पत्रकारिता–मीडिया–अध्ययन–विभागेन आरब्धस्य जेयू वचन नामक–पॉडकास्ट-इत्यस्य अपि शुभारम्भं कृतवान्। समारोहेषु विश्वविद्यालयस्य कुलपतिः प्रो.उमेश–रायः, जम्मू–सम्भागीय–आयुक्तः रमेश–कुमारः, शोध–अध्ययन–अधिष्ठात्री प्रो.नीलू–रोहमेट्रा, छात्र–कल्याण–अधिष्ठाता प्रो.प्रकाश–अन्थलः, विभागाध्यक्षाः, संकाय–सदस्याः, वरिष्ठ–अधिकारिणः तथा बहवः छात्राः उपस्थिताः आसन्। पद्मश्री–सम्मानिताः डॉ.जितेन्द्र–उधमपुरी, डॉ. एस.पी.वर्मा, रोमालो–रामः, पूर्व–डी.जी.पी. अशोक–भानः तथा जीवनस्य विविध–क्षेत्रेषु प्रतिष्ठिताः नागरिकाः अपि उद्घाटन–समारोहे उपस्थिता: आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता