मुख्यमंत्रिणा तथा प्रदेशाध्यक्षेन भारतीयजनता-पक्षस्य ‘जन-आशीर्वाद-यात्राया:’ शुभारम्भः कृतः
गुवाहाटीनगरम्, २८ फरवरीमास: (हि.स.)। भारतीयजनता-पक्षस्य (भाजपा) ‘जन-आशीर्वाद-यात्रा’ शनिवासरे ऐतिहासिके ढेकियाजुली-स्थे गुप्तेश्वर-मन्दिर-परिसरे शुभारब्धा। एषा यात्रा प्रातः १० वादने असम-राज्यस्य मुख्यमन्त्री डॉ.हिमन्त-बिस्व-सरमा तथा प्रदेश-भाजपा-अ
BJP’s Jan Ashirwad Yatra from  Dhekiajuli with CM and State President.


गुवाहाटीनगरम्, २८ फरवरीमास: (हि.स.)। भारतीयजनता-पक्षस्य (भाजपा) ‘जन-आशीर्वाद-यात्रा’ शनिवासरे ऐतिहासिके ढेकियाजुली-स्थे गुप्तेश्वर-मन्दिर-परिसरे शुभारब्धा। एषा यात्रा प्रातः १० वादने असम-राज्यस्य मुख्यमन्त्री डॉ.हिमन्त-बिस्व-सरमा तथा प्रदेश-भाजपा-अध्यक्ष: दिलीप-सैकिया इत्येतयोः उपस्थितौ आरब्धा।

ढेकियाजुली-नगरे ऐतिहासिकं महत्त्वं १९४२ तमे वर्षे सम्पन्नेन ‘भारत-त्याग-आन्दोलनेन सह सम्बद्धम् अस्ति, यदा ब्रिटिश-शासनस्य विरुद्धे सम्पन्ने जन-आन्दोलने अत्र अनेकैः स्वातन्त्र्य-सेनानिभिः स्वप्राणाः समर्पिताः। पक्ष-नेतारः अवदन् यत् बलिदानिनां पावन-भूमेः यात्रायाः आरम्भः राज्यस्य उज्ज्वल-भविष्ये प्रति संकल्पस्य प्रतीकः अस्ति।

प्रदेश-भाजपायाः वरिष्ठ-प्रवक्ता मानस-शरण्या अवदत् यत् ‘जन-आशीर्वाद-यात्रा’ केवलं कश्चन राजनैतिक-कार्यक्रमः न, अपि तु जन-विश्वासस्य दृढीकरणाय तथा विकासे प्रति प्रतिबद्धतायाः पुनरुद्घोषणाय एकम् अभियानम् अस्ति। कार्यक्रम-स्थले विशालः जनसमूहः समुपस्थितः, समर्थकानां उत्साहपूर्णा सहभागिता च दृष्टा।

मुख्यमन्त्री डॉ.हिमन्त-बिस्व-सरमा स्वीय-सम्बोधने राज्यस्य समग्र-विकासं, आधारभूत-संरचनायाः सुदृढीकरणं, उद्योग-तथा-रोजगार-सृजनं, समाजस्य सर्वेषां वर्गाणां कल्याण-लक्ष्यं च विशदीकृतवान्। सः प्रधानमन्त्रिणा नरेन्द्र-मोदिना प्रतिपादितं “विकसित-भारत” तथा “विकसित-असम” इति दृष्टिं साकारयितुं सर्वान् एकत्रीकृत्य अग्रे गन्तुम् आह्वानं कृतवान्।

मानस-शरण्या अवदत् यत् ढेकियाजुली-नगरे जनानां व्यापक-सहभागिता भाजपा-नेतृत्वे सुरक्षितस्य, सशक्तस्य, विकसितस्य च असम-निर्माणे जन-विश्वासं दर्शयति। सः अपि अवदत् यत् एषा यात्रा गुप्तेश्वर-मन्दिरात् आरभ्य बरसला, तेजपुर, नदुआर तथा रंगापाडा-प्रदेशान् अनुगमिष्यति।

तेजपुर-नगरम्, यत् असम-राज्ये साहित्यस्य, संगीतस्य, रंगमञ्चस्य च प्रमुखं केन्द्रं मन्यते, अनेकेषां प्रतिष्ठित-व्यक्तिनां कर्मभूमिः आसीत्। ज्योति-प्रसाद-अग्रवाल, विष्णु-राभा, फणि-शर्मा तथा पद्मनाथ-गोहाईं-बरुवा इत्यादयः महापुरुषाः अत्रैव असम-राज्यस्य साहित्यिकां सांस्कृतिकां च धारां समृद्धां कृतवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता