Enter your Email Address to subscribe to our newsletters


लखनऊनगरम्, २८ फरवरीमासः (हि.स.)। उत्तराखण्ड–राज्यस्य पर्यटन–धर्मस्व–संस्कृति–सिंचन–लोकनिर्माण–विभाग–मन्त्री सतपालमहाराजस्य उपस्थितौ श्री–बदरीनाथ–केदारनाथ–मन्दिर–समितेः (बीकेटीसी) अध्यक्षः हेमंतद्विवेदी शनिवासरे लखनऊनगरे उत्तप्रदेशस्य राज्यपाल-आनंदीबेन-पटेल तथा मुख्यमन्त्रिणं योगीआदित्यनाथ: इत्येताभ्यां सह शिष्टाचार–साक्षात्कारं कृतवान्। अस्मिन् अवसरे अध्यक्षेण आगामी–चतुर्धाम–यात्रायाः तथा श्री–बदरीनाथ–केदारनाथ–धाम–यात्रायाः औपचारिकम् आमन्त्रणं समर्पितम्। पर्यटन–तीर्थाटन–सम्बन्धाः विषयाः अपि चर्चायां आगताः।
मुख्यमन्त्रिणा सह संवादकाले बीकेटीसी–अध्यक्षः अवदत् यत् उत्तराखण्डे १९ एप्रैल–मासतः चतुर्धाम–यात्रा आरभ्यते। नरेन्द्रमोदीन: मार्गदर्शने तथा उत्तराखण्ड–मुख्यमन्त्रिणः पुष्करसिंहधामी–इत्यस्य दिशा–निर्देशेषु श्री–केदारनाथ–धाम्न: भव्यं पुनर्निर्माणं सम्पन्नम् अस्ति, श्री–बदरीनाथ–धाम्नि च पुनर्निर्माण–कार्यं प्रगतौ वर्तते। अस्मिन् यात्रा–वर्षे श्री–केदारनाथ–धाम्न: कपाटाः २२ एप्रैल्–तिथौ, श्री–बदरीनाथ–धामस्य च २३ एप्रैल–तिथौ श्रद्धालूनां दर्शनार्थं उद्घाटयिष्यन्ते इति सः अवगतवान्।
साक्षात्कारे बीकेटीसी–अध्यक्षेण मुख्यमन्त्रिणे एतदपि निवेदितम् यत् बदरीनाथ–केदारनाथ–मन्दिर–समितेः लखनऊ–नगरे तथा हंसुआ–फतेहपुरे स्थितानां भूमी–भवन–उद्यानानां विनिमयं कृत्वा ताः सम्पत्तयः उत्तप्रदेश–सर्वकारे समाहिताः क्रियन्ताम्, तदनन्तरं तस्य स्थाने हरिद्वार–देहरादून–ऋषिकेश–नगरेषु उपलब्धाः उत्तप्रदेश–सर्वकारस्य भूमयः बीकेटीसी–समित्यै प्रदीयन्ताम्—इति विषये लिखितं पत्रं समर्पितम्। मुख्यमन्त्रिणा अस्मिन् विषये सकारात्मक–कार्यार्थं आश्वासनं दत्तम्।
अध्यक्षेण अवगतं कृतम् यत् लखनऊ–राजधान्यां अमीनाबाद–गड़बड़झाला–क्षेत्रे बीकेटीसी–समितेः प्रायः ११,००० वर्गफीट् परिमाणस्य भूमि: अस्ति, यत्र त्रीणि जीर्ण–भवनानि तथा एकं लघु–मन्दिरं (पूजागृह–रूपेण) स्थितम् अस्ति, सा च सम्पत्तिः नगरस्य व्यावसायिक–केन्द्रे वर्तते। एवमेव लखनऊतः ९० कि.मी. दूरे हंसुआ–फतेहपुरे ५१,४५२ वर्गफीट्–परिमाणस्य एकम् उद्यानं तथा २४,०२५ वर्गफीट्–परिमाणे ४३ आपणा: द्वे भण्डारगृहे च जीर्ण–शीर्ण–स्थितौ रिक्त–भूम्यां सह सन्ति। एवं सर्वासां सम्पत्तीनां योगः ८६,४७७ वर्गफीट्–परिमाणः उत्तरप्रदेशे अवस्थितः अस्ति।
अध्यक्षेण कथितं यत् एताभ्यः सम्पत्तिभ्यः वर्तमानकाले समितेः काचिदपि आयः न प्राप्यते, प्रत्युत तासां पालन–संरक्षणे अधिकः व्ययः भवति। उत्तराखण्ड–राज्य–निर्माणानन्तरं दूरत्व–कारणात् समितिः एतासां भूमिनां सम्यक् अवधानं कर्तुं न शक्नोति, येन भू–लुण्ठकानां दृष्टिः तासु भूमिषु पतिता अस्ति तथा तासां खुर्द–बुर्द–भवने सम्भावना वर्तते इति सः अवदत्।
हिन्दुस्थान समाचार / अंशु गुप्ता