Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 28 फरवरीमासः (हि.स.)।
असम-राज्यस्य मुख्यमन्त्री डॉ हिमन्त बिस्व सरमा शनिवासरे कार्बी-समाजस्य महान् नेता सेमसनसिंग इंग्ती इत्यस्य पुण्यतिथौ तस्मै भावपूर्णां श्रद्धाञ्जलिं अर्पितवान्। तेन उक्तं यत् इंग्ती-महोदयेन असमस्य जनजातीय-समाजस्य अधिकार-आत्मसम्मान-परिचय-रक्षणार्थं स्वस्य सम्पूर्णं जीवनं समर्पितम्।
मुख्यमन्त्री स्वस्य सामाजिक-माध्यम-सन्देशे सेमसनसिंग-इंग्ती महोदयं कार्बी-आंगलोंग-प्रदेशस्य जनक इति निर्दिश्य अवदत् यत् तेन समग्रं कार्बी-समाजं एकसूत्रे बद्धम् तथा क्षेत्रस्य नूतन-दिशा-निर्धारणे महत्त्वपूर्णा भूमिका निभिता। कार्बी-आंगलोंगस्य समग्र-पहाड़ी-असमस्य च विकास-एकता-स्वाभिमान-सम्बद्धं तस्य योगदानं सर्वदा स्मरणीयं भविष्यति।
डॉ सरमा उक्तवान् यत् इंग्ती-महोदयस्य आदर्शाः संघर्षशील-व्यक्तित्वं समाज-सेवा-भावना च आगामि-संततीनां कृते प्रेरणा-स्रोतः भविष्यति। मुख्यमन्त्री तस्य पुण्यतिथौ विनम्रां श्रद्धाञ्जलिं पुनरपि अर्पितवान्।
हिन्दुस्थान समाचार