Enter your Email Address to subscribe to our newsletters

कानपुरम्, 28 फरवरीमासः (हि.स.)।
होलीपर्वणो विपरीतगणना आरब्धा सति नगरस्य मार्गेषु उत्सवस्य वर्णरञ्जनं दृश्यते। सायंकाले सति आपणस्थलेषु संमर्दो आपणेषु प्रकाशमानाः नानावर्णपिचकारीः तथा अबीरगुलालस्य सुगन्धः वातावरणं मेलकवत् निर्माति। अस्मिन् क्रयणोत्साहे बालकात् युवानपर्यन्तं सर्ववयस्काः जनाः पर्वतैयारीषु संलग्नाः दृश्यन्ते। एतत् व्यापारिणां ग्राहकारुचीनां च प्रवृत्तिभ्यः स्पष्टं प्रतीयते।
होलीपर्वस्य समीपे आगमनेन सह नगरस्य प्रमुखबाजारस्थलेषु क्रयविक्रयक्रिया तीव्रा जाता अस्ति। मेस्टनरोड्, हटियाबाजार, गोविन्दनगर तथा गुमटी इत्यादिषु व्यस्तबाजारेषु प्रातःकालात् आरभ्य रात्रेः पर्यन्तं ग्राहकार्णवः प्रवहति। दुकानेषु बहिः सुसज्जिताः वर्णथालिकाः पिचकारीपङ्क्तयः च जनान् आकर्षयन्ति। परिवारैः सह आगताः जनाः बालकानां रुचिं मनसि निधाय क्रयणं कुर्वन्ति, युवा वर्गः तु नूतनरूपरेखायुक्ताः प्रबलजलधारायुक्ताः पिचकारीः अन्विष्यति।
अस्मिन् वर्षे पारम्परिकपिचकारीभिः सह हथौड़ा कुल्हाड़ी तलवार त्रिशूलरूपिण्यः पिचकारीः विशेषाकर्षणकेंद्रं जाताः। चलच्चित्रप्रेरितरूपरेखायुक्ताः आधुनिकनामयुक्ताः पिचकारीणां मांग अपि शीघ्रं वर्धिता अस्ति। विक्रेता दीपकस्य कथनानुसारं बालकाः ‘ब्राह्मोस’ तथा ‘राफेल’ इति नाम श्रुत्वैव तादृशीं पिचकारीं क्रेतुं हठं कुर्वन्ति। एते नमूना अस्मिन् वर्षे अत्यधिकं विक्रीयन्ते।
मूल्यानां विषये वक्तव्ये शतद्विशतपरिमिते मूल्ये लघुपिचकारीः उपलब्धाः सन्ति, महतीः गुरुपिचकारीः तु द्विशतपञ्चाशद्रूप्यकात् आरभ्य द्विसहस्ररूप्यकपर्यन्तं विक्रीयन्ते। ग्राहकः रविः अवदत् यत् बालकानां कृते लघुपिचकारी क्रयिता, स्वमित्राणां कृते च महती पिचकारी। व्ययमर्यादानुसारं पर्याप्तविकल्पाः सुलभाः सन्ति।
व्यापारिणां मतानुसारम्अस्मिन् ऋतौ स्वदेशीउत्पादानां याचना अधिका दृश्यते। सर्ववर्गाणां आवश्यकतां वित्तसामर्थ्यं च दृष्ट्वा बाजारस्थले वस्तूनि उपस्थापितानि सन्ति। होलीपर्वात् पूर्वं बाजारस्थलेषु दृश्येया एषा चञ्चलता उत्सवोल्लासस्य परिवर्तमानप्रवृत्तीनां उपभोक्तृरुचीनां च सजीवं चित्रं प्रस्तूयते।
हिन्दुस्थान समाचार