Enter your Email Address to subscribe to our newsletters

जयपुरम्, 28 फ़रवरीमासः (हि.स.)।
नरेंद्र मोदी अद्य अजमेरनगरस्य प्रवासे भविष्यति। तस्य कार्यक्रमः कायड़ विश्रामस्थली इत्यत्र आयोजितः भविष्यति, यत्र सः १६६८६ कोटिरूप्यकपरिमितानां ४३ प्रमुखविकासपरियोजनानां लोकार्पणं शिलान्यासं च करिष्यति। अपि च २१८६३ युवजनान् नियुक्तिपत्राणि वितरिष्यति।
प्रधानमन्त्रिणः जनसभायाः कृते सामान्यजनानां सभास्थलं प्रति आगमनम् आरब्धम् अस्ति। अस्य प्रवासस्य पूर्वसन्ध्यायां भजनलाल शर्मा अपि अजमेरम् आगतः। सः रात्रौ एव केन्द्रीयमन्त्री भागीरथ चौधरी, भाजपा प्रदेशाध्यक्ष मदन राठौड़ तथा अन्यैः जनप्रतिनिधिभिः सह कार्यक्रमस्थलस्य निरीक्षणं कृत्वा आवश्यकव्यवस्थाः अवलोकितवान्।
प्रधानमन्त्रिणः आगमनं दृष्ट्वा सभास्थलस्य परितः प्रायः सप्तकिलोमीटरपरिमितं क्षेत्रं सुरक्षा संस्थाभिः आधीनं कृतम् अस्ति। पञ्चसहस्राधिकाः पुलिसकर्मिणः विविधाः सुरक्षा संस्थाश्च नियुक्ताः सन्ति। National Highway 48 इत्यस्मिन् किशनगढ़तः अजमेरपर्यन्तं प्रातः षड्वादने आरभ्य गुरुवाहनानां मार्गपरिवर्तनं कृतम्। कायड़ विश्रामस्थली पूर्णतया सुरक्षाछावन्यां परिवर्तिता अस्ति।
प्रधानमन्त्री प्रातः प्रायः ११ वादने अजमेरम् आगमिष्यति। हेलिपट्टिकायां भाजपा नेतृभिः तस्य स्वागतं करिष्यते। सः कार्यक्रमे ९ तः १४ वर्षपर्यन्तानां बालिकानां कृते ह्यूमन पैपिलोमा वायरस टीकाकरण अभियानस्य शुभारम्भं करिष्यति। नगरीयविकास पेयजल मार्ग रेलसिञ्चन ऊर्जा औद्योगिकाधारसंरचनासम्बद्धानां ४३ परियोजनानां लोकार्पणं शिलान्यासं च भविष्यति। तासु ८५५४ कोटिरूप्यकपरिमिताः ३४ परियोजनाः राज्यसरकारस्य विभिन्नविभागेषु सम्बद्धाः सन्ति, ८१३२ कोटिरूप्यकपरिमिताः ९ परियोजनाः राष्ट्रियराजमार्ग ऊर्जा क्षेत्रयोः सम्बद्धाः सन्ति।
प्रधानमन्त्री राज्यसर्वकारस्य विभिन्नविभागेषु चयनितानां २१८६३ युवानां नियुक्तिपत्राणि प्रदास्यति। तेषु पटवारी संविदाकनिष्ठतकनीकीसहायक लेखासहायक पशुधनसहायक सीएचओ पब्लिक हेल्थ केयर नर्स मेडिकल लैब तकनीशियन इत्यादयः पदानि सन्ति।
कार्यक्रमे हरिभाऊ बागड़े, विधानसभा अध्यक्ष वासुदेव देवनानी सहिताः अनेके मन्त्रिणः जनप्रतिनिधयश्च उपस्थिताः भविष्यन्ति। सभास्थले प्रातःकालात् एव जनानां आगमनम् आरब्धम् अस्ति। प्रशासनम् भाजपा संगठनस्य पदाधिकाऱिणश्च व्यवस्थासु संलग्नाः सन्ति।
---------------
हिन्दुस्थान समाचार