दिल्ली–नगरे सेवा एव शासनस्य मूल–मन्त्रः — रेखा गुप्ता
नवदिल्ली, २८ फरवरीमासः (हि.स.)। मुख्यमन्त्री रेखा–गुप्ता शनिवासरे दक्षिण–दिल्ली–लोकसभा–क्षेत्रे आयोजिते प्रवास–कार्यक्रमे जनसमूहेषु उपस्थाय सर्वकारस्य एकवर्षीय–कार्य–प्रगतेः “विवरणपत्रम्” प्रस्तुतवती। अस्मिन् अवसरे सा अवदत् यत् गतवर्षे दिल्लीसर्वक
दक्षिणी दिल्ली लोकसभा क्षेत्र में आयोजित प्रवास कार्यक्रम में लोगों  अभिवदन करती मुख्यमंत्री रेखा गुप्ता


नवदिल्ली, २८ फरवरीमासः (हि.स.)। मुख्यमन्त्री रेखा–गुप्ता शनिवासरे दक्षिण–दिल्ली–लोकसभा–क्षेत्रे आयोजिते प्रवास–कार्यक्रमे जनसमूहेषु उपस्थाय सर्वकारस्य एकवर्षीय–कार्य–प्रगतेः “विवरणपत्रम्” प्रस्तुतवती।

अस्मिन् अवसरे सा अवदत् यत् गतवर्षे दिल्लीसर्वकारेण नरेन्द्रमोदी–महाभागेन प्रतिपादितस्य ‘सबका साथ, सबका विकास’ इति संकल्पस्य अनुवर्तनं कुर्वन् विकासस्य, सुशासनस्य तथा समृद्धेः दिशि अनेकान् महत्त्वपूर्णान् उपायान् अकरोत्।

मुख्यमन्त्री अवदत् यत् २७ वर्षाणाम् अनन्तरं दिल्ल्यां स्थापितस्य भारतीयजनता–पक्षस्य सर्वकारेण सेवां शासनस्य मूल–मन्त्रं कृत्वा सत्तां न सुखोपभोगस्य साधनं, अपि तु जनसेवायाः माध्यमं मन्यते। प्रधानमन्त्रिणः मार्गदर्शनेन समर्पित–कार्यकर्तॄणाम् अथक–परिश्रमेण च दिल्ल्यां विकासस्य नूतना गतिः दृश्यते। ‘विकसित–भारत–२०४७’ इति संकल्पात् प्रेरणां लब्ध्वा विकसित–दिल्ली–निर्माणाय दृढा आधारशिला स्थापिता अस्ति; अस्यां आधारशिलायां समृद्ध–दिल्लीप्रदेशस्य भव्यं निर्माणं भविष्यति इति सा अवदत्।

मुख्यमन्त्री पुनरवदत् यत् सर्वकारस्य लक्ष्यं तादृशं दिल्लीनिर्माणं कर्तुम् अस्ति—यत्र अन्तिम–पङ्क्तौ स्थितः जनोऽपि सर्वाः सुविधाः प्राप्नुयात्, दिल्ली स्वच्छा प्रदूषण–मुक्ता च भवेत्, कूटक–पर्वताः (कचरा–सञ्चयाः) नश्येयुः, तथा दीर्घकालात् प्रवृत्ताभ्यः अव्यवस्थाभ्यः राजधानी मुक्तिं प्राप्नुयात्। गत–एक–वर्षे दक्षिण–दिल्ली–लोकसभा–क्षेत्रेण सहितं समग्रां दिल्लीं विकासस्य मुख्य–धारायां संयोजयन् आधारभूत–संरचना, स्वास्थ्य, शिक्षा, परिवहन, स्वच्छता तथा जनकल्याण–योजनानां वेगः वर्धितः इति सा अवदत्।

सा उवाच—“सेवा एव संस्कारः, सेवा एव संकल्पः, सेवा एव अस्माकं लक्ष्यं।” ‘जनसेवा एव राष्ट्रसेवा’ इति मन्त्रेण प्रेरिता सरकारा जनविश्वासं विकासे परिणतवती। एतत् विवरणपत्रं केवलं उपलब्धीनां तथ्यं न, अपि तु दिल्लीराज्यस्य उज्ज्वल–भविष्यस्य दिशा–दृष्टेः प्रतीकः अपि अस्ति।

अस्मिन् अवसरे दक्षिण–दिल्ली–सांसदः रामवीर सिंह बिधूड़ी, उत्तर–पश्चिम–दिल्ली–सांसदः योगेन्द्र चांदोलिया, बिजवासन–विधायकः कैलाश: गहलोत:, पालम–विधायकः कुलदीप: सोलंकी, छतरपुर–विधायकः करतारसिंहतंवर:, संगम–विहार–विधायकः चंदन-चौधरी, पूर्व–सांसदः रमेश बिधूड़ी, पक्ष–पदाधिकारिणः तथा क्षेत्रीय–नागरिकाः बहुसंख्यया उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता