विधानसभासत्रे व्याजानि न, जनसमस्यानां चर्चायाः सिद्धतां कुर्यात् कांग्रेस: – महेन्द्रभट्टः
देहरादूननगरम्, २८ फरवरीमासः (हि.स.)। भारतीय–जनता–पक्ष: (भा.ज.पा.) विधानसभासत्रविषये कांग्रेसद्वारा आरोपितान् आरोपान् निराधारान् इति निरस्य, विपक्षं जनहित–विषयेषु गम्भीर–चर्चायाः सिद्धतां कर्तुं परामर्शं दत्तवान्। पक्षेण उक्तं यत् गतचतुर्षु वर्षेषु
भाजपा प्रदेश अध्यक्ष महेंद्र भटृ।


देहरादूननगरम्, २८ फरवरीमासः (हि.स.)। भारतीय–जनता–पक्ष: (भा.ज.पा.) विधानसभासत्रविषये कांग्रेसद्वारा आरोपितान् आरोपान् निराधारान् इति निरस्य, विपक्षं जनहित–विषयेषु गम्भीर–चर्चायाः सिद्धतां कर्तुं परामर्शं दत्तवान्। पक्षेण उक्तं यत् गतचतुर्षु वर्षेषु सदनं विपक्षीय–कोलाहलानां साक्षी अभवत्, अधुना तु सत्रावधिः, वित्तविवरण–प्रस्तुतीकरणम् अथवा वाक्–निग्रहः इत्यादिषु ब्याजवादः न ग्राह्यः।

प्रदेशाध्यक्षः राज्यसभा–सांसदः महेन्द्रभट्टः विज्ञप्तिं प्रकाश्य कांग्रेसस्य वक्तृत्त्वं तथ्यहीनम् इति निर्दिश्य अवदत् यत् यदि गतचतुर्वर्षाणां विधानसभाया: अभिलेखाः निरीक्ष्यन्ते, तर्हि विपक्षस्य इतिहासः कोलाहलै: असंवैधानिक–आचरणैः च कलुषितः दृश्यते। तेन आरोपितं यत् यदा यदा कांग्रेस–विधायकेभ्यः सदने अवसरः लब्धः, तदा तदा सकारात्मक–वादविवादस्य अवरोधाय प्रयासः कृतः। चर्चां न निरोधयितुं शक्यते सति बहुभि: अवसरैः सदनात् बहिष्कारः कृत्वा ते बहिर्गताः।

भा.ज.पा.–अध्यक्षः महेन्द्रभट्टः अवदत् यत् ये नेतारः अद्य विपक्षस्य वाक्–निग्रहस्य आरोपं कुर्वन्ति, ते स्वयमेव उत्तरदायित्वपूर्णं विपक्ष–कर्तव्यं निर्वहणं न कृतवन्तः। तेषां मते कांग्रेस–विधायकानां ध्यानं जन–समस्यानां गम्भीर–चर्चाया: अपेक्षया माध्यमेषु शीर्षिकाः आहर्तुम् अधिकं वर्तते। गतसत्रस्य उल्लेखं कृत्वा तेन उक्तं यत् तदा केषाञ्चन विधायकेषु सदने कंबलम्–आवृत्य उपवेशनस्य दृश्याणि प्रादुर्भूतानि, येन संवैधानिक–मर्यादाः आहताः।

प्रदेशाध्यक्षः कटाक्षपूर्वकं अवदत् यत् कांग्रेसाय यदि पञ्चदिनानि न, पञ्चाशद्दिनानि अपि दत्तानि स्युः, तथापि सा जनहित–विषयेषु दृढ–चर्चां कर्तुं न समर्थ: भविष्यति। तेन उक्तं यत् मुख्यमन्त्री पुष्करसिंह–धामी–नेतृत्वे राज्य–सर्वकारेण विविध–क्षेत्रेषु प्रभावीताशि कार्याणि कृत्वा जनविश्वासः अर्जितः। सर्वकारस्य नीतिषु मनोवृत्तौ च कश्चिद् भ्रमः नास्ति; विपक्षः तु स्वयमेव भ्रमावस्थायां वर्तते, वादविवादात् पलायनाय कोलाहलस्य आश्रयं गृह्णाति।

महेन्द्रभट्टः कांग्रेसस्य केन्द्रीय–नेतृत्वं प्रति अपि टिप्पणीं कृत्वा अवदत् यत् यथा संसद्–मध्ये तेषां शीर्ष–नेतृभिः आचरणं दृश्यते, तथैव परम्परा उत्तराखण्डे अपि अनुश्रीयते। संसद्–मध्ये अपि वादविवादकाले अनावश्यक–कोलाहल: असंवैधानिक–भाषायाः प्रयोगः च दृश्यते, यस्य प्रभावः राज्य–राजनीतौ अपि दृश्यते।

अन्ते तेन कांग्रेसाय परामर्शः दत्तः यत् सा सत्रावधिं वित्तविवरण–प्रक्रियां वा प्रश्नीकर्तुं न प्रवर्तताम्, अपि तु स्वीय–विषयान् प्रश्नान् च सम्यक् सिद्धीकुर्यात्। भट्टः अवदत् यत् प्रदेशस्य जनताः सजगाः सन्ति, २०२७–विधानसभा–निर्वाचने पुनः परीक्षक–भूमिकां निर्वहिष्यन्ति। यदि कांग्रेसः स्वभावं न परिवर्तयेत्, तर्हि तस्य राजनैतिक–हानिः अधिका भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता