Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 03 फ़रवरीमासः (हि.स.)।
केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः भारत–अमेरिकयोः मध्ये सम्पन्नं ऐतिहासिकं व्यापार-सम्झौतं वैश्विक-आर्थिक-कूटनीत्यां निर्णायकं क्षणम् इति वर्णितवान्। तेन अस्याः ऐतिहासिकायाः उपलब्धेः कृते प्रधानमन्त्री नरेन्द्रमोदीं अमेरिकादेशस्य राष्ट्रपतिं डोनाल्ड् ट्रम्पं च हार्दिकं अभिनन्दनं कृतम्।
स्वस्य सामाजिक-माध्यमेषु प्रकाशिते सन्देशे प्रधानः अवदत् यत् एषः सहमतिः उभयोः देशयोः मध्ये द्विपक्षीय-व्यापारं निवेशं च नवया दृढतया सशक्तं करिष्यति। तेनोक्तं यत् अस्मात् दृढाः लचीला आपूर्ति-शृंखलाः निर्मीयन्ते, प्रौद्योगिकी-सहयोगः प्रवर्धते, विविधेषु महत्त्वपूर्णेषु क्षेत्रेषु रोजगारस्य नवानि अवसराणि च सृज्यन्ते।
केन्द्रीयमन्त्री अवदत् यत् एषः व्यापार-सम्झौतं भारतीय-उद्यमानां कृते रणनीतिक-बाजार-प्रवेशस्य विस्तारं करोति तथा च भारतं विनिर्माणस्य नवाचारस्य च वैश्विक-केन्द्ररूपेण प्रतिष्ठापयति। अपि च एषः सम्झौतं उद्भवमानायां वैश्विक-विकास-कथायां भारतं केन्द्रीय-स्तम्भरूपेण स्थापयति इति तेन प्रतिपादितम्।
प्रधानः स्वसन्देशे अवदत्
“न्यू-एज्-इण्डिया आर्थिके रणनीतिके संस्थागत-स्तरे च नेतृत्वाय पूर्णतया सज्जः अस्ति। भारतः न केवलं वैश्विक-व्यापारस्य दिशानिर्देशं करिष्यति, अपि तु सहकारिसमृद्धौ स्थैर्ये च महत्त्वपूर्णं योगदानं दास्यति।”
अन्ते तेन विश्वासः व्यक्तः यत् एषः सहमतिं भारतस्य वैश्विक-आर्थिक-भूमिकां अधिकं सुदृढं करिष्यति तथा च आगामिषु वर्षेषु देशस्य विकास-यात्रायै नवां गतिं प्रदास्यति।
---------------
हिन्दुस्थान समाचार