Enter your Email Address to subscribe to our newsletters

नवदेहली, ०३ फेब्रुवरीमासः (हि.स.)
भारत-अमेरिकादेशयो: व्यापार–सन्धे: सम्बन्धे उत्पन्नं संशयं दूरं कर्तुं केन्द्रीय–वाणिज्य–उद्योग–मन्त्री पीयूषः गोयलः मङ्गलवासरे संसदे भाषणं दास्यति।
आधिकारिक–स्रोतैः एषा सूचना प्राप्ता। सोमवासरात् प्रधानमंत्री नरेन्द्र–मोदिना दूरवाण्यां कृत-संवादात् अनन्तरं अमेरिकी–राष्ट्रपति डोनाल्ड्–ट्रम्पस्य सामाजिक–माध्यमे तथा ततः प्रधानमंत्री–मोदिना ‘एक्स’ इत्यत्र सन्धे: विषये विविध–कथनानि प्रवर्तन्ते। अमेरिकी–राष्ट्रपति: अपि उक्तवान् यत् भारतदेशे लग्न–टैरिफं न्यूनं कृत्वा तत्क्षणं १८ प्रतिशतं करिष्यति। एषा घोषणा तदा जाता यदा विदेश–मन्त्री एस–जयशंकरः अमेरिका–यात्रायाम् वाशिङ्ग्टन–नगरं प्रति गत:।
स्रोतैः उक्तम् यत् वाणिज्य–उद्योग–मन्त्री मुंबई–नगरात् नव–देहली–नगरं प्रतिनिवर्तते, सम्भाव्यं यत् संसदे उक्ते सन्धे: सम्बन्धे भाषणं दास्यति, यस्मिन् सन्धिरूपरेखा स्पष्टतया प्रकाश्यते।
अमेरिकी–राष्ट्रपति: ट्रम्पः सोमवासरे उक्तवान् यत् भारत–अमेरिकादेशयोः एक व्यापार–सन्धि: सहमता जाता, यस्य अनुसारं वाशिङ्ग्टनः भारतीय–सामग्रीषु प्रत्युत्तर–शुल्कं वर्तमान–२५ प्रतिशतात् न्यूनं कृत्वा १८ प्रतिशतं करिष्यति। अस्य प्रतिक्रियायां प्रधानमंत्री–मोदिना उक्तं यत् तं हर्षं प्राप्नुयात् यत् ‘मेड–इन–इण्डिया’ उत्पादेषु अद्य १८ प्रतिशतस्य न्यून–शुल्कः प्रयुक्तः भविष्यति।
केन्द्रीय–वाणिज्य–मन्त्री पीयूषः गोयलः अपि ‘एक्स’ इत्यत्र लिखितवान्, “इयं सन्धि: कृषकाणां, एम–एस–एम–ई, उद्यमिनां तथा कुशल–श्रमिकाणां कृते अभूतपूर्व–अवसरान् उद्घाटयिष्यति, येन ते जगतः कृते ‘मेड–इन–इण्डिया’, जगतः कृते ‘डिज़ाइन–इन–इण्डिया’ तथा जगतः कृते ‘इनोवेट–इन–इण्डिया’ कर्तुं शक्नुवन्ति। अनेन भारतदेशः अमेरिका देशतः प्रौद्योगिकं लब्धुं सहाय्यम् प्राप्स्यति।”
हिन्दुस्थान समाचार / अंशु गुप्ता