मेलबर्ननगरे महात्मा–गान्धिन: प्रतिमाया: चौर्यस्य भारतदेशेन कठोर–निन्दा कृता
नवदिल्ली, ०३ फेब्रुवरीमासः (हि.स.) विदेश–मंत्रालयेन मेलबर्न–नगरस्य रोविल् क्षेत्रे स्थित ऑस्ट्रेलियन–इंडियन–कम्युनिटी–केन्द्रे महात्मा–गान्धी–प्रतिमायाः चौर्य-घटना–विषये कठोर–निन्दा कृता। विदेश–मन्त्रालयः ऑस्ट्रेलियाई–अधिकारिभ्यः तत्क्षणं प्रतिमां
गांधी मूर्ति से जुड़ी तस्वीर


नवदिल्ली, ०३ फेब्रुवरीमासः (हि.स.) विदेश–मंत्रालयेन मेलबर्न–नगरस्य रोविल् क्षेत्रे स्थित ऑस्ट्रेलियन–इंडियन–कम्युनिटी–केन्द्रे महात्मा–गान्धी–प्रतिमायाः चौर्य-घटना–विषये कठोर–निन्दा कृता। विदेश–मन्त्रालयः ऑस्ट्रेलियाई–अधिकारिभ्यः तत्क्षणं प्रतिमां प्राप्तुं तथा अपराधिणां विरुद्धं कार्यवाही कर्तुम् आग्रहं कृतवान्।

ऑस्ट्रेलियादेशे महात्मा–गान्धी–प्रतिमायाः विषय–माध्यम–प्रश्नानाम् उत्तरदाने विदेश–मंत्रालय–प्रवक्ता रणधीर–जयस्वाल: उक्तवान् यत् – “मेलबर्न–रोविल-स्थिते ऑस्ट्रेलियाई–भारतीय–सामुदायिक–केंद्रे अज्ञात–जनैः महात्मा–गान्धी–प्रतिमा खण्डिता अपसारिता च इति घटना–विषये वयं कठोर–निन्दां कुर्मः। अस्य विषयस्य चर्चा ऑस्ट्रेलियाई–अधिकारिभि: कृता। तेषां कृते प्रतिमां प्राप्तुं तथा अपराधिणां दण्डं प्रदातुं तत्क्षण–कार्यम् अपेक्षितम्।”

उल्लेखनीयं यत् मेलबर्न–रोविलक्षेत्रे ऑस्ट्रेलियाई–भारतीय–सामुदायिक–केंद्रस्य बाह्यतः महात्मा–गान्धी–प्रतिमा चौरिता। एषा प्रतिमा नव–दिल्ली–स्थितः भारतीय–सांस्कृतिक–संबन्ध–परिषद् (ICCR) द्वारा उपहाररूपेण प्रदत्तम् आसीत्। स्थानीय–समाचार–वृत्तानुसारं चौर्यं सोमवासरे प्रायः १२:५० वादने जातम्। आरक्षिण: उक्तवन्त: यत् त्रयः अज्ञात–अपराधिनः ४२६ किलोग्राम–भारस्य प्रतिमायाः आधारात् छिन्नं कर्तुम् एंगल–ग्राइंडर उपकरणं उपयुक्तवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता