Enter your Email Address to subscribe to our newsletters


भोपाल–नगरम्, ०३ फेब्रुवरीमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन–यादवः उक्तवान् यत् केन्द्रीय–व्ययविवरणं २०२६–२७ राष्ट्रे न्यूनतां प्रति गम्यमानस्य बेरोजगारस्य तथा केन्द्र–राज्ययो: सहभाग-विकास–दृष्टे: सङ्गमः अस्ति। प्रदेशे बेरोजगारी–दरः न्यूनीभूय केवलं १.५ प्रतिशतं एव अवशिष्टम्। एषः अंकः प्रदेशस्य आर्थिक–स्वास्थ्यं प्रकटयति।
भोपाल–नगरस्य कुशाभाऊ–ठाकरे अन्ताराष्ट्रिय–सम्मेलन–केन्द्रे मङ्गलवासरे आयोजितायां केन्द्रीय–व्ययविवरण–पत्रकार–वार्तायाम् मुख्यमन्त्री डॉ.यादवः उक्तवान् यत् प्रदेशे बेरोजगारी–दरस्य प्रतिशतं सूचयति यत् राज्ये रोजगार–सृजनस्य दिशि शीघ्रं संशंधनं प्रवर्तते।
मुख्यमन्त्री स्पष्टतया अवदत् यत् एषा उपलब्धि केन्द्र–राज्य–सर्वकारयोः समन्वित–नीतयः, निवेश–अनुकूल–वातावरणं तथा उद्योग–विस्तारस्य परिणामः अस्ति। तेन उक्तम् यत् मध्यप्रदेश–राज्य–सर्वकारस्य च व्ययविवरणम् “एका आत्मा, एकं लक्ष्यम्” इत्यस्य सिद्धान्ते आधारितम् अस्ति। एतानि व्ययविवरणानि राज्ये केन्द्रे च पूरक–स्वरूपेण कार्यं कुर्वन्ति तथा राष्ट्रं प्रदेशं च दीर्घकालिक–विकास–दिशि नेतुम् समर्थानि भवन्ति। अनुसारेण, केन्द्रीय–व्ययविवरणं केवलं कर्गद–पत्राणि न, भविष्यस्य दृढ–मार्ग–चित्रम् इव अस्ति, यस्य साहाय्येन निवेशक–विश्वासः वृद्धिं प्राप्नोति तथा आर्थिक–स्थिरता सुनिश्चिता भवति।
मुख्यमन्त्री वैश्विक–परिप्रेक्ष्यं सूचयन् अवदत् यत् केन्द्रीय–व्ययविवरणस्य पूर्वे अनन्तरं च अन्ताराष्ट्रिय–स्तरे प्रतिक्रियाः एतस्य प्रभावं दर्शयन्ति। पाकिस्तानदेशस्य दृष्टान्तं दत्वा अवदत् यत् तत्र आर्थिक–स्थिति एवम् अस्ति यत् अमेरिकादेशस्य शर्तं मन्तव्यं भवति, किन्तु भारतदेश: स्वनीतयः संसाधनानि च शक्तिपूर्वकं प्रयोक्तुम् समर्थः। एषः भेदः भारतस्य वर्द्धमानस्य आर्थिक–बलस्य तथा वैश्विक–विश्वासस्य प्रमाणं दर्शयति।
केन्द्रीय–वित्त–मन्त्री निर्मला–सीतारमणस्य प्रस्तुतव्ययविवरणे प्रतिक्रियां दत्वा मुख्यमन्त्री पूर्वमेव उक्तवान् यत् अस्मिन् व्ययविवरणे निर्धनानां, यूनाम्, अन्नदातृणां तथा स्त्रीणां कृते विशेष–केन्द्रिता अस्ति। ५ लक्षात् अधिक–जनसंख्या–युक्तेषु नगराणां विकासाय अनागत–५ वर्षेषु ५००० कोटि–रुप्यकाणां व्यय–प्रावधानं कृतम्। एतत् नगरी–आधारभूत–संरचनाया: परिवहनस्य आवासस्य रोजगार–अवसरस्य दृढीकरणं करिष्यति। तथा लघु–नगराणां तीर्थ–स्थानानां विकासेन पर्यटनस्य वृद्धिः साध्यते, यस्य प्रभावेन स्थानीय–अर्थव्यवस्था सक्रिया भविष्यति।
स्त्रीणां तथा स्वास्थ्य–क्षेत्रस्य कृते अपि व्ययविवरणे महत्वपूर्ण–प्रावधानानि कृतानि। प्रत्येकं जनपदस्य एकस्य महिला–छात्रावासस्य निर्माणेन छात्राः तथा कार्यरत–स्त्रिय: सुरक्षित–आवासं प्राप्स्यन्ति। जनपद–चिकित्सालयानाम् उन्नयनं स्वास्थ्य–सेवायाः गुणवत्ता–वृद्धिं करिष्यति। क्लिनिकल–ट्रायल–स्थलानां विकासेन चिकित्सीय–अनुसन्धानं प्रोत्साहनं प्राप्स्यति। केयर–इकोसिस्टम–विषये विशेष–ध्यानं प्रदत्तम्, यस्य साहाय्येन वृद्धानां चिकित्सायै तथा परिचर्चायै उत्तमा: व्यवस्थाः सुनिश्चिता: भवन्ति। गंभीर–रोगाणाम् औषधीनां सुलभता–प्राप्तिः सामान्य–नागरिकेभ्यः प्रत्यक्ष–शिथिलतां दास्यति।
वस्त्र–उद्योगे संशोधन–प्रयत्नेषु मुख्यमन्त्री बलं दत्तवान् यत् एषः प्रत्यक्ष–लाभः मध्यप्रदेशाय भविष्यति। प्रधानमन्त्रिणा नरेन्द्र–मोदिना प्रदेशे पीएम–मित्र–टेक्सटाइल–उद्यानस्य उपहार: प्रदत्त:। अस्या: परियोजनायाः फलतः लगभग ३ लक्ष–जनानां रोजगारः तथा ६ लक्ष–कृषकाणां लाभः साध्यते। एतत् उद्यानं विशेषतः मालवा–निमाड–अञ्चलाय आर्थिक–उत्थानस्य माध्यमं भविष्यति तथा क्षेत्रं राष्ट्रीय–अन्ताराष्ट्रिय–स्तरे नूतन–परिचयं लप्स्यते।
व्ययविवरणे अनुसंधान–विकासदरे तथा कृत्रिम–बुद्धिमत्तायाः अधिकतम–प्रयोगे अपि बलं दत्तम्। एतेन ज्ञान–आधारित–अर्थव्यवस्थायै दृढीकरणं भविष्यति तथा यूनां कृते उच्च–कौशलयुक्त–रोजगार–अवसराः सृज्यन्ते। मुख्यमन्त्री एम–एस–एम–ई–क्षेत्रं व्ययविवरणस्य प्रमुख–लाभार्थी इति निर्दिष्टवान् यत् औद्योगिक–विकासेन प्रदेशस्य जीडीपी–वृद्धिः उल्लेखनीया भविष्यति।
पत्रकार–प्रश्नानां प्रत्युत्तरे मुख्यमन्त्री डॉ.मोहन–यादवः उक्तवान् यत् केन्द्रीय–व्ययविवरणं तथा अनागतं मध्यप्रदेश–व्ययविवरणं राज्यम् आर्थिक–सशक्तिकरणे, रोजगार–सृजने तथा सामाजिक–संतुलने अग्रे नेतुम् समर्थनि भविष्यन्ति। क्षीयमाण–बेरोजगारी, वृद्धिमान् निवेशः तथा केन्द्र–राज्य–दृढ–समन्वयः स्पष्ट–सूचना–ददाति यत् मध्यप्रदेशः विकासस्य नवीन–ऊर्ध्वतायाः दिशि शीघ्रं प्रवर्तते। एतदपि उक्तवान् यत् प्रदेश–सर्वकारस्य वर्ष–२०२६–२७ का बहुप्रतीक्षित–व्ययविवरणं अग्रिम १८ फेब्रुवरी–२०२६ दिने विधानसभायां प्रस्तोष्यते। व्ययविवरणात् पूर्वं प्रदेशस्य आर्थिक–स्थिति:, रोजगार–अवसराः तथा विकास–दिशा सम्बन्धिनः सकारात्मक–संकेताः प्रदर्शिताः।
भाजपा–प्रदेश–अध्यक्षः हेमन्त–खण्डेलवालः उक्तवान् यत् एतत् केन्द्रीय–व्ययविवरणम् अग्रिम १० वर्षेषु भारतस्य विकास–दिशां निर्धास्यति। रणनैतिक–उत्पादानां निर्माणम्, पृथक् वस्तुयान–परासर: तथा लॉजिस्टिक्स–व्यय–न्यूनता इव प्रावधानानि व्यापाराय नवीन–गति–प्रदायकानि भविष्यन्ति। तेन एतत् भय–रहित–कर–व्यवस्थायाम् अग्रे गत्वा महान् प्रयास:। एतत् व्ययविवरणं समाजस्य सर्ववर्गाय शिथिलतां प्रदातुम् समर्थम्।
अस्मिन् अवसरे भाजपा–प्रदेश–अध्यक्षं विहाय प्रदेश–प्रभारी डॉ.महेन्द्र–सिंह:, उपमुख्यमन्त्री एवं वित्त–मन्त्री जगदीश–देवड़ा, प्रदेश–मीडिया–प्रभारी आशीष–अग्रवाल: इत्येतै: सह वरिष्ठ–नेतारः उपस्थिताः। सर्वे नेतारः एकस्मिन् स्वरे केन्द्रीय–व्ययविवरणस्य स्तुतिं कृत्वा तं भारतस्य आर्थिक–संप्रभुत्वं तथा आत्मनिर्भरता–दृढीकर्तुम् योग्यं इति ज्ञापितवन्त:।
हिन्दुस्थान समाचार / अंशु गुप्ता