Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 03 फ़रवरीमासः (हि.स.)।
ओडिशा-राज्यस्य मुख्यमन्त्री मोहनचरणमाझी ‘मेड् इन् इंडिया’ इत्याख्यातेषु भारतीय-उत्पादेषु अमेरिकया आरोपितानां टैरिफ्-कराणां १८ प्रतिशतपर्यन्तं न्यूनतां भारत–अमेरिका-आर्थिकसम्बन्धेषु ऐतिहासिकां प्रगतिं इति निरूपितवान्। तेनोक्तं यत् एषः निर्णयः उभयोः देशयोः मध्ये गहनसहयोगाय तथा च साझासमृद्धये सुदृढं आधारं निर्मास्यति।
मुख्यमन्त्री स्वस्य सामाजिक-माध्यम-पत्रे अवदत् यत् टैरिफ्-कर-न्यूनतया भारतीय-विनिर्माण-क्षेत्रं, सूक्ष्म-लघु-मध्यम-उद्यमाः, निर्यातकाः तथा च रोजगार-सृजनं विशेषरूपेण प्रोत्साहनं प्राप्स्यन्ति। अस्याः एव प्रक्रियायाः परिणामस्वरूपेण उद्यमिनां स्टार्टअप्-उद्यमानां च कृते नवानि अवसराणि उद्घाटितानि भविष्यन्ति, वैश्विक-बाजारैः सह सम्पर्कः च अधिकं सुदृढः भविष्यति।
सः अस्याः उपलब्धेः श्रेयः प्रधानमन्त्री नरेन्द्रमोदीस्य निर्णायकं नेतृत्वं जनकेन्द्रितां कूटनीतिं च दत्त्वा तस्मै अभिनन्दनं धन्यवादं च अर्पितवान्। मुख्यमन्त्री माझी अवदत्
“प्रधानमन्त्रिणो नरेन्द्रमोदिनो दूरदर्शिनः जनहितकारिणः च नेतृत्वस्य कारणेन भारत–अमेरिका-सम्बन्धाः अधिकं सुदृढाः अभवन्, भारतस्य वैश्विक-आर्थिक-उपस्थितिः च नवां दृढतां प्राप्तवती।”
उल्लेखनीयं यत् अमेरिकी-टैरिफ्-कर-न्यूनतया भारतीय-उत्पादानां प्रतिस्पर्धात्मक-क्षमता वर्धिष्यते, निर्याताधारितस्य आर्थिक-विकासस्य च वेगः भविष्यति इति अपेक्षा वर्तते।
---------------
हिन्दुस्थान समाचार