Enter your Email Address to subscribe to our newsletters

रायपुरनगरम्, ०३ फेब्रुवरीमासः (हि.स.)।भारतीय–वायुसेनायाः समूह–नायक: एक्सिओम–४ अभियानस्य अङ्गभूत: अन्तरिक्ष–यात्री शुभांशु: शुक्ला मंगलवारे उक्तवान् यत् प्रत्येकं शिशोः अन्तरिक्ष–यात्रा–स्वप्नं पूर्णं भविष्यति। स: कथितवान् यत् ४१ वर्षाणाम् अन्तराले भारतदेश: पुनः अन्तरिक्षे ऐतिहासिक–सिद्धिं प्राप्नोत्, एषा यात्रा केवलं तस्य न, अपितु समग्र–भारतस्य यात्रा आसीत्।
समूह–नायक: अन्तरिक्ष–यात्री च शुभांशु: शुक्ला अद्य मुख्यमंत्रिणा विष्णु–देव–सायेन सह छत्तीसगढस्य नव–रायपुरे राखी इत्यस्मिन् क्षेत्रे जनपद–प्रशासन–सञ्चालितं “प्रोजेक्ट–अन्तरिक्ष” अन्तर्गतं अन्तरिक्ष–संगवारी-कार्यक्रमे छत्तीसगढस्य प्रथम–अन्तरिक्ष–केन्द्रस्य विधिवत् शुभारम्भं कृत्वा कार्यक्रमं सम्बोधितवान्।
शुभांशु: छत्तीसगढं ऊर्जावान् प्रदेश: इति वर्णयन् उक्तवान् यत् अत्र शिशूनाम् अपारं सामर्थ्यं जिज्ञासा च विद्यमानम् अस्ति। स: मुख्यमंत्री–सायाय विशेष–कृतज्ञतां प्रकटयन् उक्तवान् यत् प्रदेशे अन्तरिक्ष–केन्द्रस्य शुभारम्भः शिशूनां स्पेस–साइन्स-सङ्गमनस्य दिशि एकः महत्त्वपूर्णः दूरदर्शी च प्रयासः। क्लीन–स्टेशन-उद्घाटनकाले स: अवलोकितवान् यत् मुख्यमंत्री स्वयमेव प्रवेशपूर्वं विशेष–वस्त्रं धारयति स्म। एषा दृष्टिः तस्य स्पष्टम् भविष्योन्मुखी च चिन्तनं दर्शयति। स: शिशूनां यूनां च स्वप्नानां सिद्धये निरन्तरं परिश्रमस्य प्रेरणां दत्तवान्।
अन्तरिक्ष–अभियान–अनुभवं सहभागं कुर्वन् शुभांशु: उक्तवान् यत् यदा रॉकेट-इत्यस्मिन् उपविष्टः भवति तदा पूर्णतया सज्जः इति मन्यते, किन्तु यदा रॉकेट्-प्रज्वलितः भवति, तदा क्षणम् एतावता शक्तिमान् भवति यत् सम्पूर्णा सज्जा एकस्मिन् क्षणे विस्मृता इव भवति। तस्य तुलनां स: परीक्षया सह कुर्वन् उक्तवान् यथा पाठशालां प्राप्य परीक्षाकक्षे प्रश्नपत्रं दृश्यते, तदा क्षणिकं सर्वं रिक्तं इव दृश्यते, तथैव अन्तरिक्ष–यात्रायाम् अनुभूति:। तस्मिन् समये संयमं धारयितुं, स्वकर्मणि विश्वासं च स्थापयितुं अतीव आवश्यकम्, यतः परिश्रमः निष्फल: न भवति।
शुभांशु: उक्तवान् यत् ४१ वर्षस्य पश्चात् भारतदेश: पुनः अन्तरिक्षे ऐतिहासिक–सिद्धिं प्राप्नोत्, एषा यात्रा केवलं तस्य न, अपितु समग्र–भारतस्य यात्रा आसीत्। स: अवदत् यत् अन्तरिक्षे २० दिनपर्यन्तं स्थायित्वकाले पृथिव्याः ३२० वारं परिक्रमां कृत्वा १.४ कोटि किमी दूरीम् अतीतवान्। अन्ते स: शिशूनां यूनां च स्वप्नानां सिद्धये निरन्तरं परिश्रमस्य प्रेरणां दत्तवान्।
कार्यक्रमान्ते मुख्यमंत्री–साय: डॉ.शुभांशु–शुक्लां प्रति आभारं प्रकटयित्वा शिशून् आह्वयत् यत् ते महत: स्वप्नान् पश्यन्तु, विज्ञानेन मित्रतां कुर्युः, छत्तीसगढस्य नाम देशे विश्वे च दीप्तिमन्तं कुर्युः। स: उक्तवान् यत् अन्तरिक्ष–केन्द्रम् यूनां स्वप्नानां पूर्तये प्रयोगशाला भविष्यति। एतत् केन्द्रं प्रदेशस्य वैज्ञानिक–भविष्यस्य दृढम् आधारं, च सम्पूर्णे प्रदेशे अन्तरिक्ष–केन्द्राणां विस्तारः भविष्यति।
कार्यक्रमे विधायक–मोतीलाल–साहू, विधायक–अनुज–शर्मा, विधायक–इन्द्र–कुमार–साहू, जिला–पंचायत–अध्यक्ष–वीन–अग्रवाल:, जिला–पंचायत–उपाध्यक्ष–संदीप–यदु:, भवन–सन्निर्माण–कर्मकार–मण्डल–अध्यक्ष: डॉ.रामप्रताप–सिंह:, उपायुक्त: डॉ.गौरव–सिंह:, निगम-आयुक्त: विश्वदीप: च अन्ये गण्यमान्या: नागरिकाः विद्यालय–बालकाः च उपस्थिताः।
हिन्दुस्थान समाचार / अंशु गुप्ता