Enter your Email Address to subscribe to our newsletters

– मुख्यमन्त्रिणा लखनऊ–नगरे वैश्विक–निवेशकानां तथा उद्यमिनां महासङ्गमस्य
“उत्तरप्रदेश–फार्मा–कॉन्क्लेव् 1.0” कृत: शुभारम्भ:
लखनऊनगरम्, ०३ फेब्रुवरीमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी–आदित्यनाथः मंगलवासरे ताज–होटल-इत्यत्र आयोजिते वैश्विक–निवेशकानां तथा उद्यमिनां महासङ्गमे “उत्तरप्रदेश–फार्मा–कॉन्क्लेव् 1.0” इत्यस्य शुभारम्भं कृत्वा अवदत् यत् अद्य उत्तरप्रदेशः केवलं राज्यं न, अपि तु निवेशकानां कृते विश्वासस्य गारण्टीरूपेण विकसितः अस्ति। प्रदेश–सर्वकारः प्रत्येकं निवेशकं प्रति ट्रिपल–एस अर्थात् सुरक्षा, स्थिरता, वेगः (सेफ्टी, स्टेबिलिटी, स्पीड) इत्येषां पूर्णम् आश्वासनं ददाति। अद्य उत्तरप्रदेशः विश्वासस्य, रूपान्तरणस्य तथा समयबद्ध–सेवा–प्रदानस्य आदर्श–राज्यरूपेण उद्भूतः अस्ति।
मुख्यमन्त्री अवदत् यत् अद्य उत्तरप्रदेशे न्यायस्य शासनं दृढतया प्रवर्तते। विधेः उपहासः कर्तुं कस्मै अपि अनुमतिः नास्ति। यदि कश्चन विधिम् अवहेलयितुं प्रयतते, तर्हि न्याय: स्वसीमायां स्थापयित्वा तमेव तस्य भाषया प्रत्युत्तरं ददाति। एषः नूतनः उत्तरप्रदेशः अस्ति, यत्र व्यवस्था दुर्बला न, अपि तु निर्णायिका अस्ति।
स्व–सम्बोधने मुख्यमन्त्री २०१७–वर्षात् पूर्वस्थितिं स्मारयन् अवदत् यत् तस्मिन् काले उत्तरप्रदेशः असुरक्षाया:, अराजकताया: अविश्वासस्य च पर्यायः अभवत्। २०१२–२०१७–काले प्रदेशे नवशतं त: अधिकानि युद्धानि अभवन्। एकमपि नगरं नासीत् यत्र कर्फ्यू न लग्न: स्यात्। उद्योग–व्यापार–चिकित्सा–क्षेत्रेषु संलग्नाः जनाः गुण्डा–करं दातुं विवशाः आसन्। सुरक्षा–अभावात् पूर्वस्थापिताः उद्योगाः अपि प्रदेशं त्यक्तुं विवशाः अभवन्, युवजनाः पलायनं कुर्वन्ति स्म। बाल्यकालं यत्र व्यतीतं, तं प्रदेशं त्यक्तुं कस्यापि कृते दुःखकरम्, किन्तु असुरक्षा कारणम् आसीत्। एषा न केवलं एकस्य उद्यमिनः पीडा, अपि तु प्रत्येकस्य व्यापारिणः, निवेशकस्य, नागरिकस्य च व्यथा आसीत्।
मुख्यमन्त्री अवदत् यत् यदा प्रधानमन्त्रिणा नरेन्द्र–मोदिना एतत् दायित्वं तस्मै समर्पितं, तदा सर्वप्रथमं लक्ष्यं न्याय–व्यवस्थायाः सुदृढीकरणं नागरिकेषु विश्वासस्य सृजनं च आसीत्। सर्वकारेण शून्य–सहिष्णुता–नीतिः स्वीकृता। स्पष्टतया उक्तं यत् विधिः सर्वेषां कृते समानरूपेण प्रवर्तिष्यते, प्रभावशाली अस्ति न वा। अद्य तस्य परिणामः सर्वेषां समक्षं दृश्यते। महापर्व–उत्सवाः शान्तिपूर्वकं सम्पन्ना: भवन्ति। न कुत्रापि युद्धं, न लुण्ठनं, न गुण्डा–करः। उत्तरप्रदेशे शान्तिः, सुरक्षा, स्थिरता च वर्तते—एवमेव निवेशस्य दृढतम: आधारः।
मुख्यमन्त्री उक्तवान् यत् उत्तरप्रदेशः अद्य डी–रेगुलेशन–स्तरे देशे प्रथमस्थाने अस्ति। ईज–ऑफ–डुइङ–बिजनेसक्षेत्रे शीर्ष–साधकः अभवत्। डी–क्रिमिनलाइजेशन अन्तर्गतं त्रयोदश राज्य–अधिनियमेषु विद्यमानानि आपराधिक–प्रावधानानि निष्कासितानि, येन उद्योगाः भय–बाधारहितं कार्यं कुर्वन्तु। एमएसएमई–क्षेत्रे निवेशकानां कृते सहस्रदिनपर्यन्तं निरीक्षण–विरामः प्रदत्तः। अन्येषु अपि क्षेत्रेषु प्रक्रियाः सरलाः कृताः। सर्वकारस्य उद्देश्यं उद्योगान् त्रासयितुं न, अपि तु सुविधां दातुं भवति।
सः अवदत् यत् २०१७–वर्षात् पूर्वं प्रदेशे चतुर्दश–सहस्रं निर्माण्य: कार्यरता: आसन्, ये अद्य त्रिंशत्–सहस्रं त: अधिका: सन्ति। एतत् प्रमाणं यत् द्वि–इञ्जिन–सर्वकारः द्वि–वेगेन कार्यं करोति। अद्यावधि प्रदेशे पञ्चाशत्–लक्ष–कोटिरूप्यकाणां निवेश–प्रस्तावाः प्राप्ताः, येषु विंशति–लक्ष–कोटिरूप्यकाणां भूमिपूजनं सम्पन्नम्। अनेकेषु परियोजनासु उत्पादनम् अपि आरब्धम्। निवेशकैः सह सर्वकारस्य निरन्तरः संवादः वर्तते।
मुख्यमन्त्री अवदत् यत् उत्तरप्रदेशं औषध–निर्माण–नवाचार–केन्द्ररूपेण स्थापितुं सुदृढ–नीतिना स्पष्ट–दृष्ट्या च कार्यं क्रियते। ललितपुरे विकसितः बल्क–ड्रग–फार्मा–उद्यानं केवलं औद्योगिक–एककं न, अपि तु हब–एण्ड–स्पोक–नमूनाया: आधारेण विकसितः भविष्यति, यत्र अत्याधुनिक–अनुसन्धान–विकास–सुविधाः उपलब्धाः भविष्यन्ति। गौतम–बुद्ध–नगरे मेडिकल–डिवाइस–उद्यानम्, यूएस–एफडीए–परीक्षण–प्रयोगशाला, विश्वस्तरीय–लॉजिस्टिक्स–केन्द्रं च विकसितं भवति। फेब्रुवरीमासस्य द्वितीय–सप्ताहे व्ययविवरण–सत्रे लखनऊ–नगरे विश्वस्तरीय–फार्मा–संस्थानस्य निर्माण–दिशि अपि पदं स्थाप्यते। बरेली–जनपदेन सह अन्येषु जनपदेषु अपि नूतनानि फार्मा–उद्यानानि विकसितानि भविष्यन्ति।
मुख्यमन्त्री अवदत् यत् एक–जनपद–एक–उत्पादः (ODOP) योजनया उत्तरप्रदेशः लोकल–टू–ग्लोबल आदर्शं सफलतया स्थापितवान्। अद्य दूरभाष–निर्माणे देशस्य प्रायः ५५ प्रतिशतम् उत्पादनं, इलेक्ट्रॉनिक–घटक–निर्माणे ६० प्रतिशतं च केवलम् उत्तरप्रदेशे भवति। गत–नव–वर्षेषु अधोसंरचना–क्षेत्रे अभूतपूर्वा प्रगतिः अभवत्। देशस्य प्रायः ५५ प्रतिशतं एक्सप्रेस–वे–मार्गा: उत्तरप्रदेशे एव सन्ति। प्रत्येकं जनपद–मुख्यालयं चतुर्–पंक्ति–मार्गैः संयोजितम्। उन्नत–रेल–जालं, अधिकतम–मेट्रो–सेवाः, देशस्य प्रथमः अन्तर्देशीय–जलमार्गः, अधिकतम–विमानपत्तनयुक्तं राज्यं च उत्तरप्रदेशः। अद्य १६ विमानपत्तनानि क्रियाशीलानि सन्ति, येषु चत्वारि अन्ताराष्ट्रियानि। पञ्चमं नोएडा–अन्ताराष्ट्रिय–विमानपत्तनं शीघ्रमेव प्रधानमन्त्रिणा राष्ट्राय समर्पयिष्यते। मुख्यमन्त्री निवेशकान् आश्वासयन् अवदत् यत् उत्तरप्रदेश–सर्वकारः सर्वासु परिस्थितिषु तै: सह स्थितः अस्ति। अत्र राजनैतिक–हस्तक्षेप–शून्यता, पारदर्शी–नीतयः, समयबद्ध–प्रोत्साहन–वितरणं च सुनिश्चितम्।
अन्ते मुख्यमन्त्री अवदत् यत् फार्मा–कॉन्क्लेवः तस्यैव सङ्कल्पस्य अंशः अस्ति, येन उत्तरप्रदेशः औषध–निर्माण–नवाचार–केन्द्ररूपेण स्थापितः भविष्यति। एआई, टेली–मेडिसिन, डीप–टेक्, मेड–टेक्, हेल्थ–टेक्, क्लिनिकल–शोध-इत्यादिनां प्रोत्साहनार्थं सर्वकारः पूर्णबलं ददाति। सः निवेशकान् आह्वानं कृत्वा अवदत्—उत्तरप्रदेशस्य विकास–यात्रायां सहभागिन: भवन्तु, विचारान् ददतु; सर्वकारः तान् स्वीकरिष्यति, कार्यान्वितान् च करिष्यति। विश्वासः एव उत्तरप्रदेशस्य महत्तमा शक्तिः अस्ति, तेनैव विश्वासेन प्रदेशः नूतन–शिखराणि प्रति अग्रसरः अस्ति।
कार्यक्रमे उपमुख्यमन्त्री बृजेश–पाठकः, औद्योगिक–विकास–मन्त्री नन्द–गोपाल–गुप्ता–नन्दी, एमएसएमई–मन्त्री राकेश–सचानः, राज्यमन्त्री जसवन्त–सैनी, राज्यसभा–सदस्यः तथा रामकी–समूहस्य संस्थापकः अयोध्या–रामी–रेड्डी, नीति–आयोग–सदस्यः डॉ.विनोद–कुमार–पालः, सन–फार्मा–अध्यक्षः दिलीप–सांघवी, जाइदस–लाइफ–सायंसेज–अध्यक्षः पंकज–पटेलः, मैनकाइण्ड–फार्मा–अध्यक्षः रमेश–जुनेजा, डॉक्टर–रेड्डीज–लैबोरेटरीज–अध्यक्षः सतीश–रेड्डी, टोरेंट–फार्मा–उपाध्यक्षः जीनल–मेहता, एमएसएन–लैब–अध्यक्षः एमएनएस–रेड्डी तथा सन्दीप–जैनः, वी. कृष्ण–मोहनः, आदित्य–वर्मा, अमिताभ–दुबे इत्यादयः वरिष्ठ–अधिकारिण: च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता