Enter your Email Address to subscribe to our newsletters

रायपुरम्, 04 फ़रवरीमासः (हि.स.)।
मुख्यमन्त्रिणो विष्णुदेवसायस्य निर्देशानुसारं राज्ये कृषकाणां हितानि सर्वोच्चप्राथमिकतया स्वीक्रिय धान-क्रय-प्रक्रियायां महत्त्वपूर्णा शिथिलता प्रदत्ता अस्ति। अस्य अन्तर्गतं त्रिषु वर्गेषु स्थितानां कृषकाणां कृते धान-विक्रयार्थं अतिरिक्तौ द्वौ दिवसौ — ०५ तथा ०६ फेब्रुवरी २०२६ पर्यन्तं — क्रयस्य अनुमतिः प्रदत्ता अस्ति।
मुख्यमन्त्रिणो विष्णुदेवसायस्य आदेशानुसारं एते त्रयः प्रकाराः कृषकाः अस्यां अतिरिक्तावधौ धानं विक्रेतुं शक्नुवन्ति —
ये कृषकाः १० जनवरी २०२६ अनन्तरं टोकनार्थं आवेदनं कृतवन्तः, किन्तु तेषां सत्यापनं न सम्पन्नम्।
ये कृषकाः १० जनवरी २०२६ अनन्तरं आवेदनं कृत्वा सत्यापनानन्तरं तेषां समीपे धानस्य उपलब्धता सुनिश्चिताभवत्।
ये कृषकाः २८, २९ तथा ३० जनवरीदिने टोकनं प्राप्तवन्तः, किन्तु कस्यचित् कारणेन निर्दिष्टदिने धान-विक्रयं कर्तुं न शक्तवन्तः।
कृषकाणां कस्यापि प्रकारस्य असुविधा मा भवेत् इति हेतोः बारदाना-व्यवस्था वहक-श्रमिकाणां (हमालानां) समुचितव्यवस्था च सुनिश्चितीकरणाय सम्बन्धिताधिकाऱिभ्यः अपि निर्देशाः प्रदत्ताः।
राज्यसर्वकारस्य एषः निर्णयः कृषकाणां प्रति तस्याः संवेदनशीलतां तथा तेषां उत्पादनस्य सुरक्षित-सुगम-विक्रयस्य प्रति सर्वकारस्य दृढप्रतिबद्धतां प्रकाशयति।
---------------
हिन्दुस्थान समाचार