Enter your Email Address to subscribe to our newsletters

राजनांदगावनगरम्, ०४ फ़ेब्रुवरीमासः (हि.स.)। राष्ट्रीय–शिक्षुता–प्रशिक्षण–योजनायाः (एनएपीएस) अन्तर्गतं ९ फ़ेब्रुवरीमासे २०२६ दिने प्रातः ९ वादनात् आरभ्य शासकीय–औद्योगिक–प्रशिक्षण–संस्थायां (आईटीआई) राजनांदगाव–नगरे प्रधानमन्त्री–राष्ट्रीय–अप्रेन्टिसशिप–मेलापक: (पीएमएनएएम) आयोज्यते।विभागीय–अधिकारिभ्यः प्राप्तायाः सूचनायाः अनुसारं, अस्मिन् अप्रेन्टिसशिप–मेलापके विभिन्नानि प्रतिष्ठानानि अप्रेन्टिसशिप–प्रशिक्षणाय तथा नियोजनाय आमन्त्रिताः सन्ति।
सर्वाभ्यः शासकीय–निजी–औद्योगिक–प्रशिक्षण–संस्थाभ्यः आईटीआई–उत्तीर्णाः प्रशिक्षणार्थिनः स्व–स्व–शैक्षणिक–प्रमाणपत्रैः आवश्यक–कर्गदै: सह अप्रेन्टिसशिप–मेलापके सहभागं कर्तुं शक्नुवन्ति।
हिन्दुस्थान समाचार / Divya Ranjan