Enter your Email Address to subscribe to our newsletters

नव–दिल्लीनगरम्, ०४ फ़ेब्रुवरीमासः (हि.स.)। केन्द्रीयः वाणिज्य–उद्योग–मन्त्री पीयूष–गोयलः बुधवासरे लोकसभायां विपक्षस्य कोलाहलस्य मध्ये भारत–अमेरिका–व्यापार–सन्धे: विषये वक्तव्यं दत्तवान्। स: अवदत् यत् एषा सन्धि: राष्ट्रस्य तथा निर्यातकानां हिते अस्ति, अस्मिन् च कृषि–खाद्य–क्षेत्रयोः संवेदनशीलतायाः सम्यक् ध्यानं कृतम् अस्ति। कोलाहलस्य निरन्तरत्वे लोकसभा–अध्यक्षेण सभायाः कार्यवाही अपराह्णे द्विवादनपर्यन्तं स्थगिता कृता। अस्याः पूर्वं अपि विपक्षस्य तीव्र–कोलाहलात् लोकसभायाः कार्यवाही मध्याह्ने द्वादशवादनपर्यन्तं स्थगिता आसीत्।
गोयलस्य वक्तव्य–काले लोकसभायां विपक्षस्य कोलाहलः प्रवर्तमानः आसीत्, तथापि वाणिज्य–उद्योग–मन्त्री अवदत् यत् भारतदेश: अमेरिकया सह यं द्विपक्षीय–व्यापार–सन्धिम् अन्तिम–रूपं ददाति, सः संवेदनशील–कृषि–दुग्ध–क्षेत्रयोः हितानां पूर्णरूपेण संरक्षणं करोति। तेन सदनं सूचितं यत् भारत–सर्वकारेण राष्ट्रीय–हितान् सर्वोपरि स्थापयित्वा वार्ताः सम्पन्नाः कृताः। तेन स्पष्टं कृतं यत् अस्मात् सन्धित: भारतीय–कृषकाणां किञ्चिदपि हानिः न भविष्यति।
गोयलः लोकसभायाम् अवदत् यत् उभौ देशौ शीघ्रमेव सन्धे: विवरणं प्रयच्छन्तौ संयुक्त–वक्तव्यं प्रकाशयिष्यतः। सर्वकारस्य पक्षं प्रस्तुवन् सः अवदत् यत् अस्यां सन्धे: उर्वरक–कृषि–आदिषु संवेदनशील–क्षेत्रेषु भारतस्य हितानां पूर्णरूपेण रक्षा कृता अस्ति। तेन उक्तं यत् इयं सन्धि: लघु–मध्यम–व्यवसायिनः, एम–एस–एम–ई, औद्योगिक–एककानां, कुशल–श्रमिकाणां तथा उद्योगानां कृते नूतनान् अवसरान् उद्घाटयिष्यति तथा उन्नत–प्रौद्योगिकीषु प्रवेशं सुलभं करिष्यति। एतेन “मेक्–इन–इण्डिया–फॉर–द–वर्ल्ड”, “डिज़ाइन–इन–इण्डिया–फॉर–द–वर्ल्ड” तथा “इनोवेट्–इन–इण्डिया–फॉर–द–वर्ल्ड” इत्येषां लक्ष्याणां गतिः वर्धिष्यते।
केन्द्रीयः वाणिज्य–उद्योग–मन्त्री पुनः अवदत् यत् उभय–पक्षयोः हितान् दृष्ट्वा स्वाभाविकमेव अस्ति यत् उभौ स्व–स्व–अर्थव्यवस्थायाः महत्त्वपूर्ण–संवेदनशील–क्षेत्राणां संरक्षणं कृत्वा श्रेष्ठतमं परिणामं सुनिश्चितं कर्तुं इच्छेताम्। भारतीयः पक्षः विशेषतः कृषि–दुग्ध–क्षेत्रयोः संवेदनशील–हितानां संरक्षणे सफलः अभवत्। गोयलेन अपि उक्तं यत् अमेरिकी–पक्षस्यापि केचन क्षेत्राणि तेषां दृष्ट्या संवेदनशीलानि आसन्। एक–वर्ष–पर्यन्तं सञ्चालितानां अनेक–चर्चा–चक्राणाम् अनन्तरं व्यापार–सन्धे: बहूनि क्षेत्राणि अन्तिम–रूपं दत्तवन्तः। इयं सन्धि: विशेषतः श्रम–प्रधान–क्षेत्रेषु तथा विनिर्माण–क्षेत्रेषु महत्त्वपूर्णान् लाभान् प्रदास्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता