रोशन-एक्काया: हॉकी–भारतीय–कनिष्ठ–राष्ट्र–क्रीडा–शिबिराय चयनम्
पूर्वीसिंहभूमनगरम्, ०४ फ़रवरीमासः (हि.स.)। नेवल–टाटा–हॉकी–अकादम्याः (एनटीएचए) प्रतिभाशाली–कैडेट् रोशन-एक्काया: हॉकी–भारतीय–कनिष्ठ–पुरुष–शिखर–राष्ट्र–प्रशिक्षण–शिबिरे चयनम् अभवत्। एतत् राष्ट्रीय–प्रशिक्षण–शिबिरं भारतीय–क्रीडा–प्राधिकरणस्य (साई) बें
हॉकी इंडिया जूनियर नेशनल कैंप के लिए चयनित रोशन एकका का फाइल फोटो


पूर्वीसिंहभूमनगरम्, ०४ फ़रवरीमासः (हि.स.)। नेवल–टाटा–हॉकी–अकादम्याः (एनटीएचए) प्रतिभाशाली–कैडेट् रोशन-एक्काया: हॉकी–भारतीय–कनिष्ठ–पुरुष–शिखर–राष्ट्र–प्रशिक्षण–शिबिरे चयनम् अभवत्।

एतत् राष्ट्रीय–प्रशिक्षण–शिबिरं भारतीय–क्रीडा–प्राधिकरणस्य (साई) बेंगलुरु–निवासिनः नेशनल–सेंटर–आफ–एक्सीलेंस (एनसीओई) मध्ये १५ फ़रवरीमासत: ३१ मार्चमास २०२६ पर्यन्तं आयोजितं भविष्यति।

रोशनस्य एतत् चयनं केवलं तस्य व्यक्तिगत–संघर्षस्य तथा परिश्रमस्य फलम् एव न, अपितु नेवल–टाटा–हॉकी–अकादम्याः उच्च–स्तरीय–प्रशिक्षण–प्रणाल्याः अपि पुष्टिं करोति।

रोशन-एक्का वर्षे २०१९ नेवल–टाटा–हॉकी–अकादम्यां प्रवेशं कृतवान्, वर्षे २०२३ पर्यन्तं तत्र स्थित्वा सघन–प्रशिक्षणं लब्धवान्। अस्मिन् समये तस्य क्रीड़ा–कौशलेन, अनुशासनेन च सतत–प्रगत्या च प्रशिक्षकाणां ध्यानं आकृष्टवान्। उत्कृष्ट–प्रदर्शनस्य आधारः, एप्रिल २०२३ मासे तस्य चयनं एनसीओई–लखनऊ–संबद्धं कृतम्, यत्र तेन राष्ट्रीय–स्तरे स्वस्य प्रतिभा: अधिकं प्रदीप्ता:। अधुना हॉकी–इण्डिया–कनिष्ठ–राष्ट्र–शिबिरे चयनं तस्य सतत–परिश्रमस्य समर्पणस्य च प्रमाणम् इति मन्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता