माता-बम्लेश्वरी–देवी–मन्दिरम् डोंगरगढस्य विकास–परियोजना पूर्णा
रायपुरनगरम्, ०४ फरवरीमासः (हि.स.)। भारत–सर्वकारस्य पर्यटनमंत्रालयस्य प्रसाद–योजनायाः अन्तर्गतं माता-बम्लेश्वरी–देवी–मन्दिरम्, डोंगरगढस्य विकास–परियोजनायै छत्तीसगढ–राज्यस्य पर्यटनविभागाय ४८ कोटि ४३ लक्षरूप्यकाणां स्वीकृति प्रदत्ता। परियोजनाकार्यं प
माँ बम्लेश्वरी देवी मंदिर डोंगरगढ़


रायपुरनगरम्, ०४ फरवरीमासः (हि.स.)। भारत–सर्वकारस्य पर्यटनमंत्रालयस्य प्रसाद–योजनायाः अन्तर्गतं माता-बम्लेश्वरी–देवी–मन्दिरम्, डोंगरगढस्य विकास–परियोजनायै छत्तीसगढ–राज्यस्य पर्यटनविभागाय ४८ कोटि ४३ लक्षरूप्यकाणां स्वीकृति प्रदत्ता।

परियोजनाकार्यं पूर्णम् अभवत्। परियोजनायाः अन्तर्गतं कार्याणि निम्नलिखितानि अभवन् - माता-बम्लेश्वरी–पर्वते सोपानस्य जीर्णोद्धारः, शेड्, रेलिंग्, पेयजल–विन्यासनम्, शौचालय:, प्रकाशीकरणम्। पर्वतस्य अधोभागे तडागस्य सौन्दर्यीकरणम्, आपणा:, वाहनस्थापनस्थानं तथा संपूर्णे क्षेत्रे साइनेज-कार्यम्। प्रज्ञागिरि–परिसरे ध्यान–केन्द्रं, जलपानगृहम्, वाहनस्थापनस्थानं, सोपानस्क्ष जीर्णोद्धारः, सोलर–प्रकाशीकरणम्, पेयजल-व्यवस्थानम्। श्रद्धालूनां कृते ९.५ एकरं क्षेत्रे पर्यटक–सुविधा–केन्द्रस्य निर्माणं कृतम्, यः श्रीयंत्र–आकारेण समम् अस्ति। एषु केन्द्रेषु ध्यान–केन्द्रम्, विश्राम–कक्ष:, प्रसाद–कक्ष:, सांस्कृतिक–मंच:, वस्तुस्थापनप्रकोष्ठ:, सत्संग–कक्ष:, पेयजलम्, शौचालय:, लैंडस्केपिंग्, सोलर–प्रकाशीकरणम्, वाहनस्थापनस्थानं तथा प्रवेश–मार्गः आदि समाहिताः। कार्यं पूर्णं अभवत्, केवलं अन्तिमपक्षस्य कार्यं अवशिष्टम्।

निरीक्षण–समिति: तथा दिशा–समिति: अपि गठिता, या समय-समये योजनायाः समीक्षां कुर्वन्ति। नियमानुसारं श्रमिकाणां वेतनं प्रदत्तं भवति। निर्माण–कार्यं छत्तीसगढ–यात्रि–संघस्य अनुबद्धा संस्थया टीसीआईएल-द्वारा संपन्नं कृतम्, या भारत–सर्वकारस्य दूरसंचार–मंत्रालयेन सम्बद्धा अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता