Enter your Email Address to subscribe to our newsletters

नवदेहली, ०४ फेब्रुवरीमासः (हि.स.)।
राष्ट्रपतिः द्रौपदी–मुर्मुः मणिपुर–राज्ये गत–एक–वर्षपर्यन्तं प्रवर्तमानं राष्ट्रपतिशासनम् तत्काल–प्रभावेन अपसारितवती। अनेन सह राज्ये पुनः भारतीय–जनता–पक्ष–नेतृत्वस्य राजग–गठबन्धनस्य सर्वकार: निर्माणाय अग्रसरति।
गृह–मन्त्रालयेन बुधवासरे एतद्विषये अधिसूचना निर्गता। तत्रोक्तं यत् राष्ट्रपतिना संविधानस्य अनुच्छेद–३५६ अन्तर्गत–उपबन्ध–२ अनुसारं १३ फेब्रुवरीमासे २०२५ तमे दिने मणिपुर–राज्यसम्बद्धा घोषणा प्रत्याहृता।
दिल्ली–नगरे एकदिनपूर्वं मङ्गलवासरे युमनाम–खेमचन्द–सिंहः भारतीय–जनता–पक्षस्य विधायक–दलस्य नेता इति चयनितः। तस्य नेतृत्वे अद्य राजग–गठबन्धनस्य वरिष्ठ–नेतारः मणिपुर–राज्यपालम् अजय–भल्लां समुपेत्य भाजपा–नेतृत्व–गठबन्धनस्य सर्वकार–गठनाय समर्थन–पत्रं समर्पितवन्तः।
दिल्ली–नगरे पक्ष–विधायकानां सभानन्तरं भाजपा–नेता सिंहः नेता इति निर्वाचितः। अनन्तरं केन्द्रीय–पर्यवेक्षकः तरुण–चुघः परम्परागत–प्रावारेण तं सम्मानितवान्। अस्मिन् अवसरे पूर्व–मुख्यमन्त्री एन.–बीरेन–सिंहः, मणिपुर–प्रदेशाध्यक्षः अधिकारिमयूम–शारदा–देवी तथा उत्तर–पूर्व–प्रदेश–प्रभारी सम्बित–पात्रा अपि उपस्थिताः आसन्।
भाजपा–विधायकः युमनाम–खेमचन्द–सिंहः मणिपुरस्य नवीनः मुख्यमन्त्री भविष्यति। गत–वर्षस्य फेब्रुवरीमासे जातीय–हिंसा–पीडिते मणिपुर–राज्ये तदा–तत्कालीनः मुख्यमन्त्री एन.–बीरेन–सिंहः पदत्यागं कृतवान्। तदनन्तरं राज्ये विधि–व्यवस्था–संरक्षणाय राष्ट्रपतिशासनं प्रवर्तितम्, पश्चात् तत् षड्मासपर्यन्तं विस्तारयत्।
राज्ये मैतेई–कुकी–समुदाययोः जातीय–संघर्षे सहस्रशः जनाः विस्थापिताः, शताधिकाः च जनाः मृताः अभवन्।
उल्लेखनीयम् यत् मणिपुर–राजनीतौ गहन–सम्बन्ध–युक्तः अनुभवी राजनेता युमनाम–खेमचन्द–सिंहः इम्फाल–पश्चिम–जनपदस्य सिंगजामेई–निर्वाचन–क्षेत्रात् द्विवारं मणिपुर–विधानसभायाः सदस्यः अभवत्। सः २०१७ तथा २०२२ वर्षयोः विधान–सभा–निर्वाचनयोः विजयम् अलभत्।
हिन्दुस्थान समाचार / अंशु गुप्ता