मध्यप्रदेशः : सीहोर–जनपदे अमलाहा–नगरे ७ फेब्रुवरीमासे दलहन–क्षेत्रस्य राष्ट्रिय–सम्मेलनं भविष्यति
दलहनक्षेत्रे नीतिनिर्धारणे अनुसंधाने च मील–पाषाणं भविष्यति राष्ट्रिय–सम्मेलनम् - कृषि–मन्त्री कंषाना भोपाल–नगरम्, ०४ फेब्रुवरीमासः (हि.स.)। मध्यप्रदेशस्य सीहोर–जनपदे अमलाहा–नगरे ७ फेब्रुवरीमासे दलहन–उत्पादन–उत्पादकता–सम्बद्धेषु विविधेषु विषयेषु गह
मंत्री एदल सिंह कंषाना (फाइल फोटो)


दलहनक्षेत्रे नीतिनिर्धारणे अनुसंधाने च मील–पाषाणं भविष्यति राष्ट्रिय–सम्मेलनम् - कृषि–मन्त्री कंषाना

भोपाल–नगरम्, ०४ फेब्रुवरीमासः (हि.स.)। मध्यप्रदेशस्य सीहोर–जनपदे अमलाहा–नगरे ७ फेब्रुवरीमासे दलहन–उत्पादन–उत्पादकता–सम्बद्धेषु विविधेषु विषयेषु गहन–विचार–विमर्शाय एकं महत्वपूर्णं राष्ट्रिय–सम्मेलनम् आयोजयिष्यते। अस्मिन् सम्मेलने दलहन–क्षेत्रे वर्तमान–समस्या:, मूल–संवेदनाः तथा भविष्य–सम्भावनाः विषदतया चर्चयिष्यन्ते।

राज्यस्य कृषक–कल्याण–कृषि–विकास–मन्त्री एदल–सिंह–कंषाना बुधवासरे अवदत् यत् अस्मिन् सम्मेलने देशस्य प्रमुख–दलहन–उत्पादक–राज्यानां कृषि–मन्त्रिणः, वरिष्ठ–अधिकारिणः, दलहन–अनुसंधान–सम्बद्धाः वैज्ञानिकाः, शासकीय–बीज–उत्पादक–संस्थाः, दाल–उद्योग–सम्बद्धाः प्रतिनिधयः तथा अन्याः सहयोगी–संस्था: सहभागं करिष्यन्ति।

मन्त्री कंषाना अवदत् यत् सम्मेलनकाले दलहन–उत्पादनस्य सुदृढीकरणम्, कृषकाणां आय–वृद्धिः तथा उन्नत–प्रौद्योगिकीनां माध्यमेन उत्पादकता–संशोधनम् इत्यादिषु विषयेषु विचार–विमर्शः भविष्यति। सः अवदत् यत् एतत् सम्मेलनं दलहन–क्षेत्रे नीतिनिर्धारणे अनुसंधाने च मील–पाषाणं सिद्धं भविष्यति।

मन्त्रिणा सूचितं यत् सम्मेलनस्य मुख्य–उद्देश्यं कृषकेभ्यः नवीन–अनुसंधान–फलानि, गुणवत्तापूर्ण–बीजानि, आधुनिक–कृषि–पद्धतयः तथा बाजार–सम्बद्धा सूचना प्रापयितुम् अस्ति, येन दलहन–क्षेत्रे आत्मनिर्भरता प्रोत्साहिता भवेत्। सार्धमेव विभिन्न–राज्यानां अनुभव–आदान–प्रदानस्य माध्यमेन राष्ट्रिय–स्तरे दलहन–विकासाय दृढा: प्रभाविन्यः रणनीतयः सज्जी करिष्यन्ते।

हिन्दुस्थान समाचार / अंशु गुप्ता