Enter your Email Address to subscribe to our newsletters

बलरामपुरम्, 04 फ़रवरीमासः (हि.स.)।
विद्यार्थिनां मध्ये आत्मविश्वासस्य सकारात्मकचिन्तनस्य च सुदृढीकरणार्थं प्रधानमन्त्रिणा नरेन्द्र मोदिना गतनववर्षेभ्यः आरभ्य ‘परीक्षा पे चर्चा’ नामकः कार्यक्रमः निरन्तरं आयोजितः भवति। अस्याः शृङ्खलायाः अन्तर्गतं परीक्षा पे चर्चा 2026 इत्यस्य मुख्यकार्यक्रमः षष्ठे फरवरी दिनाङ्के प्रातः दशवादनात् आरभ्य आयोजितः भविष्यति।
अयं कार्यक्रमः देशव्यापिनः दूरदर्शन पीएम ई विद्या चैनल रेडियो यूट्यूब फेसबुक लाइव तथा अन्यैः डिजिटल सामाजिक माध्यमैः च प्रत्यक्षप्रसारणेन दर्शितः भविष्यति। अस्य कार्यक्रमस्य उद्देश्यं परीक्षातनावस्य न्यूनीकरणं परीक्षाकालस्य उत्सवरूपेण पालनस्य भावना च प्रोत्साहयितुम् अस्ति।
कार्यक्रमस्य सफलायोजनार्थं कलेक्टर श्री राजेन्द्र कटारा महोदयेन जिल्लायाः सर्वेषु शासकीय निजी विद्यालयेषु अस्य प्रत्यक्षप्रसारणं सुनिश्चितं कर्तुं निर्देशाः प्रदत्ताः। तेन सह जिल्लायाः विविधेषु सार्वजनिक निजी स्थलेषु अपि अस्य कार्यक्रमस्य सामूहिकदर्शनाय आवश्यकव्यवस्थाः कर्तुम् उक्तं, येन अधिकाधिकाः विद्यार्थी अभिभावकाः शिक्षकाः च लाभं प्राप्नुयुः।
कार्यक्रमस्य व्यापकप्रचारप्रसारार्थं भारतसरकारस्य विद्यालयशिक्षा साक्षरतामन्त्रालयेन प्रदत्तानि प्रचारवीडियो सामग्री च जिल्लायाः सर्वेषु विद्यालयेषु वितर्यन्ते। अनेन छात्रेषु कार्यक्रमस्य विषये विशेषः उत्साहः दृश्यते। तेषां कृते कार्यक्रमदर्शनस्य समुचितव्यवस्था अपि क्रियते, येन ते विद्यार्थिभिः सह संवादं सहभागितां च कर्तुं शक्नुवन्ति।
‘परीक्षा पे चर्चा’ कार्यक्रमः विद्यार्थिनां कृते न केवलं मार्गदर्शकः सिद्धः भवति, अपि तु तान् खिन्नतामुक्तान् कृत्वा आत्मविश्वासेन सह परीक्षां दातुं प्रेरयति।
---------------
हिन्दुस्थान समाचार