Enter your Email Address to subscribe to our newsletters


रायपुरम्, 04 फ़रवरीमासः (हि.स.)।
भारतस्य महान् वैज्ञानिकः आचार्यः सत्येन्द्रनाथ बोस इत्यस्य पुण्यतिथेः अवसरे बुधवासरे एकः विशेषः व्याख्यानकार्यक्रमः आयोजितः। अयं कार्यक्रमः छत्तीसगढ रीजनल साइंस सेन्टर तथा छत्तीसगढ विज्ञान प्रौद्योगिकी परिषद् इत्येतयोः संयुक्ततत्त्वावधानेन सम्पन्नः।
कार्यक्रमस्य मुख्यवक्ता पण्डित रविशंकर शुक्ल विश्वविद्यालय रायपुरस्य पूर्वकुलपतिः प्रोफेसर डॉ एस के पाण्डेय आसीत्। प्रोफेसरेण विस्तृतव्याख्याने आचार्य सत्येन्द्रनाथ बोसस्य सम्पूर्णजीवनवृत्तान्तः प्रकाश्य तस्य बाल्यकालः शिक्षा शैक्षणिकजीवनम् वैज्ञानिकोपलब्धयश्च क्रमबद्धतया प्रेरणादायिन्या शैलीया प्रस्तुताः।
तेन विशेषतया क्वाण्टम् भौतिकी क्षेत्रे आचार्य बोसस्य ऐतिहासिकं योगदानं रेखाङ्कितम्। बोस आइंस्टीन सांख्यिकी इत्यस्य अवधारणा सरलतया प्रभावीरीत्या च व्याख्याता। व्याख्यानकाले बोसॉन इत्यस्य संकल्पना तेषां विशेषताः आधुनिकभौतिकी क्षेत्रे तेषां भूमिका च उदाहरणैः सह विस्तारपूर्वकं स्पष्टा।
तेन अपि उक्तं यत् आचार्य बोसस्य शोधकार्येण प्रेरितः अल्बर्ट आइंस्टीन तस्य सिद्धान्तान् अग्रे नीतवान्, यस्य परिणामस्वरूपं बोस आइंस्टीन संघनन इति महत्त्वपूर्णा वैज्ञानिकावधारणा विकसिताऽभवत्। अस्य उपयोगः अद्यतनभौतिकी क्वाण्टम् अनुसन्धान उन्नतप्रौद्योगिकीषु च क्रियते।
कार्यक्रमस्य शुभारम्भः साइंस सेन्टरस्य महानिदेशकस्य प्रशान्त कविश्वरस्य स्वागतभाषणेन अभवत्। तेन स्वसम्बोधने आचार्य बोसस्य वैज्ञानिकयोगदानं तस्य मौलिकचिन्तनं युवसंततेः कृते तस्य प्रेरणादायकजीवनं च प्रकाश्य वर्णितम्।
कार्यक्रमे शासकीयविद्यालय दलदल सिवनी तथा बीपी पुजारी स्वामी आत्मानन्द शासकीयविद्यालययोः छात्रछात्राणां सक्रियसहभागिता आसीत्। तदनन्तरं बीएड् डीएड् विज्ञानविषयस्य अध्यापकाः अपि कार्यक्रमे सम्मिलिताः। कार्यक्रमे राज्य शैक्षिक अनुसन्धान प्रशिक्षण परिषद् रायपुरस्य अतिरिक्तसंचालकः जेपी रथ तथा छत्तीसगढ रीजनल साइंस सेन्टर विज्ञान प्रौद्योगिकी परिषदो वैज्ञानिकाः अधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार