Enter your Email Address to subscribe to our newsletters

जयपुरम्, 04 फ़रवरीमासः (हि.स.)।
जयपुर परिवार सेवा समिति इति संस्थायाः पताकायाः अधः श्रीशिवपुराणकथा तथा श्रीमहामृत्युंजय रुद्र महायज्ञस्य आयोजनं आगामि २० मार्चतः २६ मार्च पर्यन्तं मानसरोवर क्षेत्रस्थिते वीटी रोड मेला ग्राउण्ड नामके स्थले विधास्यते।
अस्मिन् अवसरे भारतस्य प्रसिद्धः शिवमहापुराणकथावाचकः अनन्यः शिवभक्तः प्रेरकः आध्यात्मिकप्रवक्ता च पण्डित प्रदीप मिश्रा महाराज स्वीयया वाण्या जयपुरनिवासिभ्यः शिवकथां श्रावयिष्यति। अस्य आयोजनस्य बहुरङ्गीयस्य फलकस्य विमोचनं मुख्यमन्त्रीनिवासे मुख्यमन्त्री भजनलाल शर्मा महोदयेन कृतम्। तस्मिन् अवसरे कथायाः पोस्टरविमोचनम् अपि सम्पन्नम्।
अस्मिन् प्रसङ्गे समितेः सचिवः अखिलेश अत्री समाजसेवी राकेश कुलवाल व्यवस्थापकः मनोज पाण्डे सहयजमानः नरेन्द्र हर्ष च उपस्थिताः आसन्। मुख्यव्यवस्थापकः अखिलेश अत्री अवदत् यत् आयोजनस्य अन्तर्गतं पञ्चदश मार्च दिनाङ्के एकादशसहस्राणि महिलाः सहभागीभूय भव्यां कलशयात्रां केएल सैनी स्टेडियमात् कथास्थलपर्यन्तं निष्कासयिष्यन्ति।
भव्यलवाजमेन सह निष्क्रामन्त्यां अस्यां ऐतिहासिककलशयात्रायां जयपुरनगरात् देशस्य विविधभागेभ्यश्च सहस्रशः भक्ताः सहभागीभविष्यन्ति। अस्य आयोजनस्य विषये जयपुरनिवासिषु विशेषः उत्साहः दृश्यते। आयोजनस्य सज्जताः तीव्रगत्या प्रवर्तन्ते। आयोजनस्य सफलतार्थं विविधाः समितयः अपि गठिताः सन्ति। सर्वेषां संस्थानां सामूहिकप्रयत्नैः एषः आयोजनः न केवलं जयपुरस्य, अपि तु सम्पूर्णप्रदेशस्य धार्मिकइतिहासे उत्कृष्टं प्रेरणादायकं च अध्यायं स्थापयिष्यति।
---------------
हिन्दुस्थान समाचार