Enter your Email Address to subscribe to our newsletters

पटनानगरम्, ०४ फरवरीमासः (हि.स.)। बिहार–राज्ये उपमुख्यमंत्रिणा सह राजस्व एवं भूमि–सुधार–मंत्री विजयकुमार: सिन्हा विभागीय-कार्यालयकक्षे बुधवासर–संध्यायां राज्ये चलमानं विशेषस्य भूमि–सर्वेक्षणकार्यस्य विस्तारपूर्वकं समीक्षां कृतवान्। समीक्षा–काले विजय–सिन्हा–उवाच – मुख्यमंत्रिणा नीतीशकुमारेण २०११ तमे वर्षे घोषितं बिहार–विशेषं भूमि–सर्वेक्षणं अग्रिमयो: द्वयोः वर्षयो: पूर्णं कर्तुं लक्ष्यं निर्धारितम्।
प्रत्येकस्मिन् जनपदे समय–सीमायाः अनुसारं विस्तृत–विवरणं शीघ्रं प्रस्तोतं सम्बन्धिता: अधिकारिण: निर्दिष्टा:।सर्वाणि कार्याणि पूर्णतया पारदर्शिता–समयबद्धतया संपन्नानि भविष्यन्ति, येन सामान्यजनाय वास्तविक–लाभः शीघ्रं प्राप्स्यते।
आलस्यं न सहिष्यते; त्रुटि: अनावश्यक: विलंब: वा इत्यनयो: सन्दर्भे तत्कालं कार्यवाहीं कर्तुं संबंधिताधिकारिण: अधिकारभागा: भविष्यन्ति। सर्वं केवलं औपचारिकता न, संशोधन–आधारः एव भविष्यति। अशुद्ध–विवरणं उतवा स्वमनोगतकार्यसन्दर्भे दृढा प्रशासनिक–नैयायिक कार्यवाहीं कृत्वा दण्डनीय: भविष्यति। नागरिकाणां आवाहनं कृतं यत् कार्यगतदोषान् लिखितरूपेण विभागे सूचयन्तु, तत्क्षणं कार्यवाही सुनिश्चिता भविष्यति। समीक्षा–सभायां प्रधान–सचिवः सी.के.अनिल: तथा सचिवः जय सिंह: एतौ एव पूर्वे कैडेस्ट्रल एवं रिवीजनल इत्येतेषां सर्वेषा लाभानां विवेचनं कृतवन्तौ। भू–अभिलेख एवं परिमाप–निदेशालय–निदेशकः सुहर्षभगत: वर्तमान–स्थिति–विलंबकारणानि च सूचितवान्।
प्रगति–संक्षेपं ज्ञापयन् अवदत् यत् - प्रथमचरणे २० जनपदानां ८९ अंचलानां ५६५७ राजस्व–ग्रामेषु ऑथोफोटोग्राफ्, ग्राम–उद्घोषणा, ग्राम–सभाकार्यं शत–प्रतिशतं पूर्णम्। पर्यायानुसारन कार्यं ९९.९२%, खानापुरी ९४.४%, प्रपत्रं–६ प्राय: ७९% ग्रामेषु पूर्णम्।प्रारूप अधिकार–अभिलेखा: ६७% ग्रामेषु प्रकाशिता:, अंतिमाधिकार–अभिलेखा: ३१% ग्रामेषु प्रकाशिता:, ९१२ ग्रामस्य अभिलेखा: अधिसूचिता:।
द्वितीयचरणे ३६ जनपदानां ४४४ अंचलानां ३७,४१९ राजस्व–ग्रामेषु वायु–सर्वेक्षणं, ऑथोफोटोग्राफ्, ग्राम–उद्घोषणा, ग्राम–सभा शकार्यं पूर्णम्।रैयत-द्वारा २.७० कोटित: अधिका: स्वघोषणाः प्राप्ताः, प्रपत्रं–५ कार्यं ९८.८१% ग्रामेषु पूर्णम्। त्रि–सीमाना–निर्धारणं तथा ग्राम–सीमा–सत्यापनं प्रगत्यां अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता