राम कथा ज्ञान यज्ञन्नीत्वा ध्वजारोहणकार्यक्रमः
भागलपुरम्, 05 फ़रवरीमासः (हि.स.)। महाशिवरात्रेः अवसरः प्राप्ते सति १५ फरवरी तिथेः आरभ्य भागलपुरजनपदस्य सुल्तानगंजप्रखण्डे रघुचक अन्हार ग्रामे रामेश्वर सेवा समिति द्वारा आयोज्यमानस्य श्रीरामकथाज्ञानयज्ञसहित श्रीमद्भागवतकथायाः आयोजनार्थं चण्डीगढ़नग
कार्यक्रम में शामिल लोग


भागलपुरम्, 05 फ़रवरीमासः (हि.स.)।

महाशिवरात्रेः अवसरः प्राप्ते सति १५ फरवरी तिथेः आरभ्य भागलपुरजनपदस्य सुल्तानगंजप्रखण्डे रघुचक अन्हार ग्रामे रामेश्वर सेवा समिति द्वारा आयोज्यमानस्य श्रीरामकथाज्ञानयज्ञसहित श्रीमद्भागवतकथायाः आयोजनार्थं चण्डीगढ़नगरात् आगतस्य रामकथावाचकस्य कुन्दनजी महाराजस्य उपस्थितौ गुरुवासरे ध्वजारोहणकार्यक्रमः सम्पन्नः।

अस्मिन् कार्यक्रमे कटहरा पंचायतस्य कटहरा मोथाबाड़ी कुमारपुर पनसाल्ला आजादनगर इत्यादिषु समीपस्थग्रामेषु निवसतां जनानां मध्ये महान् उत्साहः दृष्टः।

ध्वजारोहणात् पूर्वं चण्डीगढ़ात् आगतैः कुन्नाथजी महाराजैः मङ्गलपाठः कृतः।

ध्वजारोहणसमये रामेश्वर सेवा समितेः अध्यक्षः सुरेश प्रसाद सिंह कार्यकारी अध्यक्षः अरुण कुमार सिंहः, अभय कुमार सिंहो नन्दन कुमार सिंहो, मुन्ना कुमार सिंहो गौतम कुमार सिंहः, सुभाष शाहः, बेरासी यादवो, दानी पासवानः श्याम सिंहः पप्पू सिंहः श्री राम सिंहः जयप्रकाश सिंहो, युवराज चन्दनः च इत्यादयः बहुसंख्यकाः पंचायतवासिनो जनाश्च सहभागिनः अभवन्।

---------------

हिन्दुस्थान समाचार