Enter your Email Address to subscribe to our newsletters

डॉ.मयंक: चतुर्वेदी
भारताय निवेशस्य विकासस्य तन्त्रज्ञान–क्रान्तेश्च समयः वर्तते।भारतदेशः अद्य वैश्विक–आर्थिक–मानचित्रे तीव्रगत्या स्वकीयं स्थानं निर्मातुम् आरब्धवान्। वैश्विक–परिसम्पत्ति–प्रबन्धन–क्षेत्रस्य प्रमुखा संस्था ब्लैक–रॉक इत्यस्य अध्यक्षस्य लैरी–फिंकस्य साम्प्रतिके वक्तव्ये भारतस्य सन्दर्भे यत् उक्तम्, तत् सर्वभारतीयान् गर्वेण तथा आशया प्रपूरितम्। फिंकस्य अनुसारं अग्रिमं दशकं भारतीय–अर्थव्यवस्थायाः यशोपूर्णः भविष्यति। अयं भारतस्य युगः भविष्यति, यस्मिन् भारतस्य जीडीपी प्रतिवर्षं ८–१० प्रतिशतं वृद्धिम् अनुभविष्यति।
वस्तुत: फिंकः भारतीयान् उपदिशति यत् स्वमूल्यं केवलं धनागारे न स्थापयन्तु, किंतु पूँजी–विपणीषु निवेशं कुर्वन्तु। अमेरिका–देशस्य उदाहरणं दत्त्वा तेन स्पष्टं कृतम् यत् दीर्घकालिके निवेशे चक्रवृद्धि–व्याजेन लाभः धनागारजमायाः अपेक्षया अधिकः स्यात्। अयं सन्देशः भारतीय–निवेशकानां दीर्घकालिक–समृद्धेः मार्गदर्शकः।
भारतस्य आर्थिक–सफलता डिजिटल–क्रान्तिः, 5जी–सञ्जाल–विस्तारः, कृत्रिम–बुद्धिमत्ता च स्टार्टअप–परिसरस्य माध्यमेन तीव्रगत्या प्रगतिं प्राप्नोति। 5जी–सञ्जालः प्राय: सर्वेषु ग्रामेषु प्राप्यते, यः विश्वे अन्येषु देशेषु अपेक्षया अधिक: व्यापकः। एतेन प्रौद्योगिकी–आधारेण व्यवसायानां, शिक्षायाः, स्वास्थ्यसेवानां च प्रगति: विकसिताः।
रिलायंस–संस्थाया: अध्यक्ष: मुकेश–अंबानी अपि कथयति यत् भारतदेशे नव–स्टार्टअप्स-व्यवसाय–अवसराः शीघ्रं उत्पन्नाः भविष्यन्ति। गतवर्षे भारतीयैः स्वर्णे ६० अर्बुद डॉलर्स् तथा रजते १५ अर्बुद डॉलर्स् निवेशितम्। अंबानी अपि कृत्रिम–बुद्धिमत्ता (एआई) भयंकरं न मन्यते, अपितु एतत् शिक्षायां स्वास्थ्ये कराधान–प्रक्रियायां संशोधयियितुं उपयुक्तं इति अवदत्।
जियो–फाइनेंशियल–सेवा: तथा ब्लैक–रॉक–सहभागितया निवेशकानां कृते नवीनः मंचः निर्मितः। विगते सप्तमासे १० लक्ष–निवेशकाः युक्ताः, येषां एक–चतुर्थांशः प्रथमवारं म्यूचुअल–फंड–निवेशं कृतवान्। केवी–कामथः भविष्यवाणीं दत्तवान् यत् अग्रिमे पञ्चवर्षे म्यूचुअल–फंड–परिसम्पत्तिः ८० लक्ष–कोटिरूप्यकं द्विगुणितं भविष्यति।
विश्व–धनागार: अन्ताराष्ट्रिय–मुद्रा–कोषः च अपि भारतस्य आर्थिक–स्थितिं पुष्टयति। शिक्षायां तथा स्वास्थ्ये निवेशः वृद्धिं अनुभवति। सर्वकारेण २०२५–२६–वर्षे शिक्षा–कौशल–विकासाय १० प्रतिशतं अधिकं व्ययविवरणम् आवंटितम्। भारतदेश: ऊर्जा–क्षेत्रे आत्मनिर्भरं भविष्यति; अक्षय–सौर–हरितहाइड्रोजन-परियोजनाः महत्वपूर्णं योगदानं दास्यन्ति।एतेन भारतदेश: केवलम् आर्थिक–विकासे न, अपितु वैश्विक–निवेश–नवाचार–मानचित्रे अपि अग्रणी भविष्यति। फिंकस्य कथनं – “भारतस्य युगः आगतः” – आर्थिक, सामाजिक, तथा तकनीकी–प्रगतिः प्रतिफलिता।
अतः स्पष्टम् यत् भारतदेशः निवेशस्य विकासस्य तथा प्रौद्योगिकी–क्रान्तेः युगम् आरब्धवान्। युवाशक्तिः, प्रौद्योगिकी–नवाचारेण वित्तीय–साक्षरतया स्थिर–नेतृत्वे च सम्मिल्य भारताय नवीनं गौरव–युगं सृजति।
हिन्दुस्थान समाचार / अंशु गुप्ता