Enter your Email Address to subscribe to our newsletters



ग्वालियरनगरम्, ०५ फेब्रुवरीमासः (हि.स.)। मध्यप्रदेश–राज्यस्य ग्वालियर–नगरे भारतरत्नस्य स्व.अटलबिहारी-वाजपेयी–स्मृत्यां निर्मीयमाणम् अटल–स्मारकं संग्रहालयं च २० कोटि–रूप्यकाणां व्यये ३० सितम्बरमासं २०२६ पर्यन्तं पूर्णं भविष्यति तथा सामान्यजनानां अवलोकनार्थं उपलब्धं भविष्यति।
एतत् विवरणं गुरुवासरे उपायुक्ता रुचिकाचौहान-इत्यनया सिरोल–पर्वत–स्थले निर्माणाधीनं अटल–स्मारकं संग्रहालयं च निरीक्ष्य प्रदत्तम्। सा निर्माणकार्याय गतिं प्रदातुं तथा गुणवत्तायै विशेष–सावधानतां गृहीत्वा अधिकारिण: निर्देशान् अपि दत्तवती। निर्देशानुसारं अटल–स्मारकं संग्रहालयं च ३० सितम्बरपर्यन्तं पूर्णं कृत्वा शीघ्रं जनताया: अवलोकनार्थं उद्घाटयितुं सुनिश्चितं भविष्यति।
अस्मिन् अवसरे विज्ञापितं यत् मुख्यमन्त्री डॉ.मोहन–यादवेन प्रदेश–सर्वकारपक्षत: अटल–स्मारकं संग्रहालयं च निर्माणार्थं सिविल–कार्याय ६.८० कोटि–रूप्यकाणि प्रदत्तानि। ऊपायुक्ता अटल–स्मारकस्य संग्रहालयस्य च सम्पूर्ण–चित्रणं तथा निर्माणकार्यं च निरीक्ष्य दृष्टवती। अटल–स्मारकं संग्रहालयं च सिरोल–पर्वत–स्थले १० एकर–भूमौ निर्मीयते। अत्र त्रि–तल–स्मारक–संग्रहालये प्रत्येकं तले अटल-संबद्धाः स्मृतयः प्रदर्शनार्थं दर्क्ष्यन्ते। उपायुक्ता–चौहान-इत्यनया भूतल–स्थलस्य निरीक्षणं कृतम्। भूतल–स्थलस्य क्षेत्रफलम् २९० वर्ग–मीटर। भूतल–स्थले सूचना–पट्टिका:, अटल–प्रदर्शन–क्षेत्रं तथा अटलस्य भव्य–मूर्ति: स्थाप्यते। तत्र उत्तोलक:, सोपानानि अपि सन्ति।
अधतल–स्थले ४६ वर्ग–मीटर–क्षेत्रे इतिहास–प्रदर्शिनी स्थाप्यते। अत्र भारतस्य इतिहासं तथा स्वतंत्र–भारतस्य विषयं प्रदर्क्ष्यते। प्रदर्शिनी–स्थले अटल–भव्य–वर्चुअल–प्रतिमा अपि स्थाप्यते। हिस्टी–लॉग–स्थले अटल-जीवन–कार्यशैली–विवरणं प्रदर्क्ष्यते। तोश–खाना–प्रदर्शिनी–स्थले पूर्व–प्रधानमन्त्रिणा अटल–बिहारी–वाजपेयी–संबद्धा: पुरस्काराः उपहाराणि च प्रदर्क्ष्यन्ते। प्रदर्शन–परिसरे आगंतुकानां कृते विभिन्न–कलाप्रदर्शनं भविष्यति, उपवेशनकक्ष: अपि स्यात्।
निरीक्षणकाले मध्यप्रदेश–पर्यटन–विभागस्य अधिकारी तथा निर्माण–संस्था–प्रतिनिधयः उपस्थिताः आसन्। ते उपायुक्तायै विवरणं दत्तवन्तः यत् अटल–स्मारकस्य संग्रहालयस्य च निर्माणकार्ये तीव्रता दीयते तथा ३० सितम्बरपर्यन्तं सम्पूर्णं कृत्वा सामान्यजनानां अवलोकनार्थं उपलब्धं कर्तुं लक्ष्यं अस्ति। वरिष्ठ–अधिकारिभि: अपि अटल–स्मारक–निर्माणकार्यस्य निरन्तरं निरीक्षणं क्रियते।
प्रदर्शिनी–स्थले अटलेन सह चित्रकर्षणक्षेत्रस्य क्षेत्रफलम् १३०० वर्ग–मीटर। आगंतुकाः पूर्व–प्रधानमन्त्रिणा भारतरत्नेन अटल–बिहारी–वाजपेयिना सह चित्रकर्षणं कर्तुं शक्नुवन्ति। प्रदर्शिनी–स्थले हरित–प्रौद्योगिकी (ग्रीन–टेक्नोलॉजी) अपि उपयुक्ता भविष्यति, येन आगन्तुकाः अटलेन सह यात्रानुभवं प्राप्स्यन्ति।
प्रथम–तले ई–पुस्तकालय: एवं कार्यालय:
प्रथम–तले संगोष्ठीकक्ष–स्थले १७० वर्ग–मीटरक्षेत्रफलम्। तत्र सेविनियर–शॉप–स्थाप्यते, क्षेत्रफलम् १७५ वर्ग–मीटर। चित्र–पोस्टकार्ड–आदि च विक्रयार्थं स्थाप्यन्ते। ई–पुस्तकालय: एवं कार्यालय–क्षेत्रं ६५ वर्ग–मीटर, यस्मिन् ऑडियो, फाइल, चित्राणि च प्रदर्क्ष्यन्ते।
हिन्दुस्थान समाचार / अंशु गुप्ता