Enter your Email Address to subscribe to our newsletters

राजिमम्,05 फ़रवरीमासः (हि.स.)।
छत्तीसगढराज्यस्य गरियाबन्दजिल्लायां स्थिते राजिमनगरस्य पवित्रे त्रिवेणीसंगमतटे आयोज्यमाने राजिमकुम्भकल्पमेला–२०२६ अन्तर्गतं श्रद्धालूनां पर्यटकानां च मनोरञ्जनसहितं लोकसंस्कृतेः संरक्षणसंवर्धनयोः उद्देश्येन मुख्यवेध्यां प्रतिदिनं सायं पञ्चवादनात् आरभ्य विविधसांस्कृतिककार्यक्रमाणाम् आयोजनं क्रियते। एतेषु कार्यक्रमेषु छत्तीसगढराज्येन सह देशस्य विविधप्रदेशेभ्यः आगताः ख्यातिप्राप्तकलाकाराः स्वप्रस्तुतिभिः दर्शकान् मन्त्रमुग्धान् करिष्यन्ति।
सांस्कृतिककार्यक्रमेषु लोकमञ्चः, कथकनृत्यं, लोकनृत्यं, भरतनाट्यं, रामलीला, ओडिसीनृत्यं, सुगमसंगीतं, जसगीतं, जागरणं, हास्यप्रदर्शनं, वादनगायनादयः बहवः प्रकाराः प्रदर्शिताः भविष्यन्ति।
कार्यक्रमाणां सूची निम्नलिखिता अस्ति
५ फरवरी दिने रायपुरनगरात् बॉबी मण्डल इत्यनेन सुगमसंगीतप्रस्तुतिः, कुम्हारीप्रदेशस्य महेशवर्मा इत्यनेन छत्तीसगढी लोककलामञ्चस्य प्रस्तुति: भविष्यति।
६ फरवरी दिने गाडाघाट-अतरमरा प्रदेशात् घनश्यामसाहू तथा बिलासपुरनगरस्य हिरेन्द्रठाकुर इत्येताभ्यां लोकमञ्चप्रदर्शनम् भविष्यति।
७ फरवरी दिने बेमेतरानगरस्य देवराजमिश्र तथा नवागांव-चम्पारणप्रदेशस्य महेशसाहू लोकमञ्चकलां प्रस्तुतिष्यतः।
८ फरवरी दिने लोकगायिका आरू साहू इत्यस्याः मनोहरप्रस्तुतिः भविष्यति। धमतरीप्रदेशस्य रूपेन्द्रसाहू (गोलू) तथा रायपुरस्य सावित्रीकहार इत्येताभ्यां लोकमञ्चप्रस्तुतिः दास्यते।
९ फरवरी दिने रायपुरस्य ग्रीष्मा आर्ट् एण्ड् कल्चर् संस्थया रामलीलाया: मंचनं क्रियते। दुर्गप्रदेशस्य डिपरापारा इत्यस्मात् ईश्वरदेवांगन तथा कुलेश्वरताम्रकार लोकमञ्चं प्रस्तुतिष्यतः, रायपुरस्य गीतिका चक्रधर कथकनृत्यं प्रदर्शयिष्यति।
१० फरवरी दिने राष्ट्रियस्तरस्य प्रसिद्धा गायिका स्वाति मिश्रा इत्यस्याः विशेषप्रस्तुतिः मुख्याकर्षणं भविष्यति। रायपुरस्य वैष्णवी शर्मा भरतनाट्यम्, पांडुका प्रदेशस्य एम.के. पाण्डेय लोकनृत्यं च प्रस्तुतिष्यति।
११ फरवरी दिने कोरबा प्रदेशस्य कौशलसाहू हास्यप्रदर्शनस्य माध्यमेन दर्शकान् हास्ययिष्यति, राजनांदगांवस्य कविता वासनिक अनुरागधाराप्रस्तुतिं करिष्यति।
१२ फरवरी दिने रायपुरस्य शिल्पासिंह कथकनृत्यं, बेमेतरानगरस्य संतोषकुमार घोरबंधे लोककलामञ्चं च प्रस्तुतिष्यति।
१३ फरवरी दिने रायपुरस्य मनोजसेन लोकछत्तीसगढकार्यक्रमं, मनेंद्रगढप्रदेशस्य जसमीतकौर जसगीत-जागरणं च आयोजयिष्यति।
१४ फरवरी दिने दुर्गप्रदेशस्य राजेन्द्रसाहू लोकमञ्चकलां, भाटापारा प्रदेशस्य प्रांजलसिंहराजपूत भरथरीकलां च प्रस्तुतिष्यति।
समापनदिने, १५ फरवरी दिने, राजिमकुम्भकल्पमेलायाः समापनावसरे रामानन्दसागरस्य प्रसिद्धधारावाहिके ‘रामायण’ इत्यत्र भगवान् श्रीरामस्य पात्रं निभावितवान् सुप्रसिद्धः अभिनेता अरुण गोविल मुख्याकर्षणं भविष्यति। तेन सह बिलासपुरस्य गीतिका बांसुरीवादनगायनं करिष्यति तथा गरियाबन्दप्रदेशस्य यशवंतभेडिया लोकमञ्चप्रस्तुतिं दास्यति।
हिन्दुस्थान समाचार