Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०५ फेब्रुवरीमासः (हि.स.)। उच्चतम–न्यायालयेन भारतीय–जनता–पक्ष: (भा.ज.पा.) नेता च बीसीसीआई–पूर्व–अध्यक्षं अनुराग–ठाकुरं क्रिकेट–संघेन सह संयुक्तं भवितुम् अनुमतिः दत्ता। मुख्यन्यायाधीशस्य सूर्यकान्तस्य आध्यक्ष्ये न्याय–पटल-पीठेन एष: आदेशः प्रदत्तः।
उच्चतम–न्यायालयेन उक्तम् यत् २०१७ तमे वर्षे यदा उच्चतम–न्यायालयेन अनुराग–ठाकुरं बीसीसीआई–अध्यक्ष–पदात् अपसारितुम् आदेशः प्रदत्तः, तत् आजीवनं नासीत्। एतस्य आदेशस्यानन्तरम् अनुराग–ठाकुरः बीसीसीआई–कार्यार्थं नियमानुसारं सहभागं कर्तुं शक्नोति।
उच्चतम–न्यायालयेन २ जनवरीमासे, २०१७ तमे दिनाङ्के अनुराग–ठाकुरं मिथ्या–विवरणं समर्पयितुं तथा न्यायालय–अवमाननायाः दोषी इति निर्धार्य बीसीसीआई–अध्यक्ष–पदात् तथा अजय–शिर्के–सचिव–पदात् अपसारितम्।
अनन्तरं न्यायालये अनुराग–ठाकुरस्य विरुद्धं अवमाननायाः अपि कार्यवाही प्रचलिता। अनुराग–ठाकुरेन उच्चतम–न्यायालयात् नि:शर्त–क्षमायाः याचना कृता, यत् न्यायालयेन अनुमोदितम्।
हिन्दुस्थान–समाचार:/संजय:
हिन्दुस्थान समाचार / अंशु गुप्ता