Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, ०५ फेब्रुवरीमासः (हि.स.)। उत्तरप्रदेश–पुलिस–विभागे बुधवासरे रात्रौ विलम्बेन आरक्षी–अधिकारिणां स्थानान्तरणं कृतम्। शासनेन ११ जनपदानां आरक्षी–नायकै: सहितं २४ आईपीएस–अधिकारिणां स्थानान्तरणानि विहितानि। स्थानान्तरण–क्रमे लखनऊ–मण्डलस्य आरक्षी–महानिदेशकः/अपर–आरक्षी–महानिदेशकः सुजीत–पाण्डेयः अग्निशमन–आपत्कालीन–सेवाः मुख्यालयः, लखनऊ इत्यस्य आरक्षी–महानिदेशकत्वेन नियुक्तः। प्रवीण–कुमारः अयोध्या–परिक्षेत्रस्य आरक्षी–महानिदेशकः/आरक्षी–महानिरीक्षकः पदात् मुक्तः कृत्वा लखनऊ–मण्डलस्य अपर–आरक्षी–महानिदेशकः नियुक्तः। के.एस.–इमानुएलः ईओडब्ल्यू–आरक्षी–महानिरीक्षक–पदात् विमुक्तः कृत्वा डीजीपी–कार्यालयस्य जीएसओ रूपेण नियुक्तः। विनोद–कुमार–सिंहः कानपुर–नगर–आरक्षी–कमिश्नरेटस्य संयुक्त–आरक्षी–आयुक्त–पदात् डॉ.भीमराव–अम्बेडकर–आरक्षी–अकादमी, मुरादाबाद इत्यत्र आरक्षी–महानिरीक्षकः नियुक्तः। आलोक–प्रियदर्शी गाजियाबाद–आरक्षी–कमिश्नरेटे अपर–आरक्षी–आयुक्त–पदात् वाराणसी–आरक्षी–कमिश्नरेटे अपर–आरक्षी–आयुक्तः नियुक्तः। राजकरन–नैय्यरः, गोरखपुरे आरक्षी–उपमहानिरीक्षकः/वरिष्ठ–आरक्षी अधीक्षकः, गाजियाबाद–आरक्षी–कमिश्नरेटे अपर–पुलिस–आयुक्तः कृतः।सोमेन–वर्मा मीरजापुरे आरक्षी–उपमहानिरीक्षकः/वरिष्ठ–आरक्षी–अधीक्षक–पदात् अयोध्यायां आरक्षी–उपमहानिरीक्षकः नियुक्तः।
एवमेव संकल्प–शर्मा खीरी–जनपदे आरक्षी–उपमहानिरीक्षकः/आरक्षी–अधीक्षक–पदात् कानपुर–नगर–आरक्षी–कमिश्नरेटे संयुक्त–आरक्षी–आयुक्तः नियुक्तः। विपिन–टाडा, मेरठे आरक्षी–उपमहानिरीक्षकः/वरिष्ठ आरक्षी-अधीक्षकः, कानपुर–नगरआरक्षी–कमिश्नरेटे संयुक्त–आरक्षी–आयुक्तः कृतः।अभिषेक–यादवः पीलीभीते आरक्षी–उपमहानिरीक्षकः/आरक्षी–अधीक्षक–पदात् लखनऊ–एटीएस–आरक्षी उपमहानिरीक्षकः नियुक्तः।आशीष–तिवारी, सहारनपुरे आरक्षी–उपमहानिरीक्षकः/वरिष्ठ–पुलिस–अधीक्षकः, लखनऊ–तकनीकी–सेवाः विभागे आरक्षी–उपमहानिरीक्षकः कृतः।प्रताप–गोपेन्द्र–यादवः मुरादाबाद–पीटीसी–आरक्षी–उपमहानिरीक्षकः/पुलिस–अधीक्षक–पदात् लखनऊ–आरक्षी–मुख्यालये आरक्षी–उपमहानिरीक्षकः नियुक्तः।
११ जनपदानां आरक्षी–नायका: परिवर्तिताः
शासनेन ११ जनपदानां आरक्षी–नायका: परिवर्तिताः। कुंवर–अनुपम–सिंहः सुलतानपुरस्य आरक्षी–अधीक्षक–पदात् जौनपुरस्य वरिष्ठ–आरक्षी–अधीक्षकः नियुक्तः। ख्याति–गर्गा मुरादाबादे ९वीं वाहिनी–पीएसी–सेनानायक–पदात् खीरी–जनपदस्य आरक्षी–अधीक्षकः कृतः। यशवीर–सिंहः रायबरेली–जनपदात् बस्ती–जनपदस्य आरक्षी–अधीक्षकः नियुक्तः। चारु–निगमः सुलतानपुर–जनपदस्य, तथा अपर्णा–रजत–कौशिकः मीरजापुर–जनपदस्य आरक्षी-नायकत्वेन नियुक्ताः। अभिनन्दनः बस्ती–जनपदात् सहारनपुरस्य वरिष्ठ–आरक्षी–अधीक्षकः कृतः। डा.कौस्तुभः जौनपुरस्य वरिष्ठ–आरक्षी–अधीक्षक–पदात् गोरखपुरस्य नूतनः आरक्षी–नायक: नियुक्तः। अविनाश–पाण्डेयः लखनऊनगरस्य ०१वीं वाहिनी–एसएसएफ–सेनानायक–पदात् मेरठस्य वरिष्ठ–आरक्षी–अधीक्षकः कृतः।रवि–कुमारः सीतापुरे ११वीं वाहिनी–पीएसी–सेनानायक–पदात् रायबरेली–जनपदस्य आरक्षी–अधीक्षकः नियुक्तः।सुकृतिः–माधवः आग्रायां क्षेत्रीय–अभिसूचना–विभागस्य आरक्षी–अधीक्षक–पदात् पीलीभीतस्य आरक्षी–अधीक्षकः कृतः।
सर्वानन–टीः वाराणसी–आरक्षी–कमिश्नरेटस्य अपर–आरक्षी–उपायुक्त–पदात् अमेठी–जनपदस्य आरक्षी–अधीक्षकः नियुक्तः। तथा संभल–जनपदे तैनाता अनुकृति–शर्मा गौतमबुद्ध–नगर–आरक्षी–कमिश्नरेटे अपर–आरक्षी–उपायुक्ता नियुक्ता।
हिन्दुस्थान समाचार / अंशु गुप्ता