Enter your Email Address to subscribe to our newsletters



नवदिल्ली, 06 फरवरीमासः (हि.स)।
टाटा समूहस्य स्वामित्वे वर्तमानया एयर इंडिया नामिका विमानसेवा दिल्ली नगरस्य इंदिरा गांधी अन्तरराष्ट्रीय विमानस्थानके स्वस्य नूतनं महाराजा लाउंज उद्घाटितवती। एषः लाउंज प्रायः १६००० वर्गफुट् क्षेत्रे विस्तीर्णः अस्ति तथा अत्र ‘बिजनेस’ एवं ‘फर्स्ट क्लास’ वर्गयोः मिलित्वा प्रायः ३०० जनाः उपवेष्टुं शक्नुवन्ति।
एयर इंडिया संस्थया ‘एक्स’ इति सामाजिक माध्यमे प्रकाशिते वक्तव्ये उक्तं यत् वयं नवी दिल्लीस्थे इंदिरा गांधी अन्तरराष्ट्रीय विमानस्थानकस्य टर्मिनल ३ मध्ये स्वस्य प्रथमं प्रमुखं महाराजा लाउंज उद्घाटितवन्तः, यः प्रीमियम भूमिसेवासु नूतनं मानदण्डं स्थापितवान् अस्ति।
विमानसंस्थया उक्तं यत् १६००० वर्गफुट् क्षेत्रे विस्तीर्णः अयं लाउंज एयर इंडिया संस्थायाः नूतन ब्राण्ड दर्शनानुसारं विनिर्मितः अस्ति, यः परम्पराप्रेरितं सौन्दर्यम् आधुनिक विलासितां च सम्यक् संयोजयति। अस्मिन् विशालः बिजनेस विभागः तथा विशिष्टः फर्स्ट क्लास विभागः अपि सन्ति। तत्सह एविएटर बार, ग्लोबट्रॉटर अध्ययनकक्षः, क्रिस्टल बार, शान्तिक्षेत्रम्, फर्स्ट क्लास निद्रासुइट तथा विमानपथदृश्ययुक्ताः विश्रामस्थलानि च सावधानीपूर्वकं विन्यस्तानि सन्ति।
विमानसंस्थायाः अनुसारं हिर्श बेडनर एसोसिएट्स इत्यनेन संस्थया संकल्पितः अयं लाउंज भारतस्य सांस्कृतिक धरोहरायाः गाढसम्बन्धं प्रदर्शयति, तथा उत्तमं भोजनम्, व्यक्तिनुकूल पेयसेवा तथा सुखदं वातावरणम् अपि प्रददाति। कम्पनी उक्तवती यत् १६ फरवरी २०२६ तः अर्हताप्राप्त अतिथिभ्यः क्रमशः प्रवेशः प्रदीयते।
एयर इंडिया संस्थया उक्तं यत् महाराजा लाउंज अनेकेषु आधुनिक लाउंजेषु प्रथमः अस्ति, यान् वयं भारतदेशे तथा विश्वस्य विभिन्नेषु विमानस्थानकेषु आरब्धुं योजनां कुर्मः। एषः ग्राहकानुभवस्य उन्नयनाय अस्माकं निरन्तरप्रयत्नस्य भागः अस्ति।
विमानसंस्थायाः प्रमुखः कैंपबेल विल्सन उक्तवान् यत् एषः विमानसेवायाः कृते अत्यन्तं उत्साहजनकः कालः अस्ति, तथा अस्मिन् वर्षे परिवर्तनं केवलं विमानयानेषु एव न, अपितु विमानस्थानकेषु अपि दृश्यते। सः अवदत् यत् नूतना एयर इंडियाद्वारा शनैः शनैः स्वस्वरूपेण प्रकाशते। दिल्ली विमानस्थानकस्य अयं नूतनः लाउंजः संस्थायाः परिवर्तनयात्रायाः महत्त्वपूर्णा उपलब्धिः अस्ति इति अपि सः अभवत्।
---------------
हिन्दुस्थान समाचार