Enter your Email Address to subscribe to our newsletters

शिमला, 06 फ़रवरीमासः (हि.स.)।
हिमाचलप्रदेशे विधायकक्षेत्रविकासनिधेः ऐच्छिकनिधेः च अप्रवर्तनस्य विषयम् अधिगृह्य भाजपाविधायकदलम् शुक्रवासरे राज्यपालं शिवप्रतापशुक्लं मिलित्वा प्रदेशसर्कारस्य विरुद्धं ज्ञापनपत्रं समर्पितवान्। प्रतिपक्षनेता जयरामठाकुरस्य नेतृत्वे आगताः भाजपाविधायकाः आरोपं कृतवन्तः यत् सर्कारः अक्तूबर २०२५ मासात् परं विधायकक्षेत्रविकासनिधिं न प्रददाति, येन विधानसभाक्षेत्रेषु विकासकार्याणि बाधितानि भवन्ति।
ज्ञापनपत्रे उक्तं यत् अयं प्रदेशः अस्मिन् वर्षे प्राकृतिकापदाभिः महत् क्षतिं प्राप्तवान्, तादृशे काले विकासपुनर्वासकार्याणां कृते विधायकनिधेः आवश्यकता अधिका भवति। भाजपाविधायकदलस्य मते, विनियोगपत्रे प्रावधानं सति अपि निधेः केवलं अर्धांशः एव प्रदत्तः, शेषराशेः निरोधनात् विकासयोजनाः स्थगिताः भवन्ति तथा जनप्रतिनिधीनां जनतायै दत्तप्रतिज्ञाः पूरयितुं कठिनता जायते।
भाजपाविधायकैः एतदपि उक्तं यत् ऐच्छिकनिधेः समये अप्रदानेन दरिद्राणां रोगिणां आपद्ग्रस्तानां च जनानां शीघ्रार्थिकसहायता दातुं बाधा उपजायते। अनेन जनप्रतिनिधीनां विश्वसनीयतायाम् अपि प्रभावः दृश्यते।
ज्ञापनपत्रे पुनः निर्दिष्टं यत् परम्परानुसारं विधायकाः स्वस्वक्षेत्राणां विकासप्राथमिकताः लोकनिर्माणविभागे जलशक्तिविभागे च पंजीकरोन्ति, किन्तु गतवर्षेषु विपक्षीयविधायकैः प्रदत्तानां प्राथमिकतानां विषये न विस्तृतपरियोजनाविवरणपत्रं डीपीआर सिद्ध्यते न च नाबार्डसंस्थां प्रति अनुमोदनार्थं प्रेष्यते।
प्रतिपक्षनेता जयरामठाकुर राज्यपालेन सह मिलित्वा उक्तवान् यत् बहुषु प्रकरणेषु अनुमतिपत्रं निर्गतं सति अपि कोषागारस्तरे धनवितरणं निरुद्धं भवति, येन विकासकार्याणि आरभ्यन्ते न। सः आरोपितवान् यत् एषा स्थिति लोकतान्त्रिकव्यवस्थायाः समतोलविकासस्य च भावनायाः अनुकूलं नास्ति तथा विपक्षीयक्षेत्रेषु विकासकार्याणि योजनाबद्धतया बाध्यन्ते।
तेन उक्तं यत् अद्यपर्यन्तं विधायकनिधेः केवलं द्वे किश्ते पञ्चपञ्चाशत् लक्षरूप्यकपरिमाणे एव प्रदत्ते, शेषराशिः अद्यापि लम्बिता अस्ति।
भाजपाविधायकदलेन राज्यपालं प्रति निवेदनं कृतं यत् सः प्रदेशसर्कारं निर्देशयेत् यथा विधायकक्षेत्रविकासनिधिः ऐच्छिकनिधिः च शीघ्रं प्रदीयेताम् तथा विधायकानां विकासप्राथमिकतासम्बद्धानां परियोजनानां डीपीआर सिद्धीकृत्य नाबार्डसंस्थायै प्रेष्येत, येन सर्वेषु विधानसभाक्षेत्रेषु समानरूपेण विकासकार्याणि प्रवर्तेरन्।
---------------
हिन्दुस्थान समाचार