रायपुरम् : खोलार नाला अथ च धौराभाठा जलाशय योजनायै 17 कोटितोऽधिक राशिः स्वीकृतः
रायपुरम्, 06 फ़रवरीमासः (हि.स.)। छत्तीसगढ़शासनस्य जलसंसाधनविभागेन कोरबा जिल्लान्तर्गतयोः द्वयोः सिंचनयोजनयोः कार्यार्थं 17 कोटि 89 लक्ष 6 सहस्र रूप्यकाणि स्वीकृतानि सन्ति। स्वीकृतकार्येषु विकासखण्ड कटघोरा अन्तर्गतस्य खोलारनाला स्टापडेम संख्या 2
रायपुरम् : खोलार नाला अथ च धौराभाठा जलाशय योजनायै 17 कोटितोऽधिक राशिः स्वीकृतः


रायपुरम्, 06 फ़रवरीमासः (हि.स.)।

छत्तीसगढ़शासनस्य जलसंसाधनविभागेन कोरबा जिल्लान्तर्गतयोः द्वयोः सिंचनयोजनयोः कार्यार्थं 17 कोटि 89 लक्ष 6 सहस्र रूप्यकाणि स्वीकृतानि सन्ति।

स्वीकृतकार्येषु विकासखण्ड कटघोरा अन्तर्गतस्य खोलारनाला स्टापडेम संख्या 2 इत्यस्य निर्माणकार्याय 6 कोटि 83 लक्ष 83 सहस्र रूप्यकाणि स्वीकृतानि। अस्य योजनया निस्तारी भूजलसंवर्धनं च भविष्यति, कृषकैः स्वसाधनैः 25 हेक्टेयर क्षेत्रे खरीफकाले सिंचनं भविष्यति, औद्योगिकप्रयोजनार्थं जलप्रदानं च क्रियते।

एवमेव विकासखण्ड पाली अन्तर्गतस्य धौराभाठा जलाशययोजनायाः निर्माणकार्याणां कृते 11 कोटि 5 लक्ष 23 सहस्र रूप्यकाणि स्वीकृतानि। अस्य योजनायाः अन्तर्गतं 400 हेक्टेयरमिते क्षेत्रे सिंचनं कर्तुं प्रस्तावितम् अस्ति।

एतेषां सिंचनयोजनाकार्याणां कृते मुख्य अभियन्ता हसदेवकछार जलसंसाधनविभाग बिलासपुर इत्यस्मै अद्य प्रशासकीयस्वीकृतिः प्रदत्ता।

---------------

हिन्दुस्थान समाचार