मुख्यमंत्री नेत्रहीन महिला टी-20 विश्वचषकीयस्य विजेतृदलस्य क्रीडिका अनु कुमारी सम्मानिता
पटना, 06 फ़रवरीमासः (हि.स.)। मुख्यमंत्री श्री नीतीशकुमारः अद्य 01 अणे मार्गस्थिते ‘संकल्प’ सभागारे प्रथमनेत्रहीनमहिला टी 20 विश्वकप 2025 स्पर्धायाः विजेता भारतीयदलस्य क्रीडिका अनु कुमारी इत्यस्यै 23 लक्ष 43 सहस्र 750 रूप्यकाणां मूल्यस्य चेकं च अंग
मुख्यमंत्री नीतीश नेत्रहीन महिला टी-20 विश्व कप विजेता टीम की खिलाड़ी अनु कुमारी चेक और प्रशस्ती पत देकर सम्मानित करते हुए


पटना, 06 फ़रवरीमासः (हि.स.)।

मुख्यमंत्री श्री नीतीशकुमारः अद्य 01 अणे मार्गस्थिते ‘संकल्प’ सभागारे प्रथमनेत्रहीनमहिला टी 20 विश्वकप 2025 स्पर्धायाः विजेता भारतीयदलस्य क्रीडिका अनु कुमारी इत्यस्यै 23 लक्ष 43 सहस्र 750 रूप्यकाणां मूल्यस्य चेकं च अंगवस्त्रं च प्रदाय सम्मानितवान्।

अनु कुमारी प्रथमनेत्रहीनमहिला टी 20 विश्वकप 2025 विजेता भारतीयदलस्य सदस्या आसीत्। भारतीयदलस्य विजयप्राप्तौ तया महत्त्वपूर्णा भूमिका निर्वहिता।

मुख्यमंत्री तस्यै अभिनन्दनं शुभकामनाः च दत्त्वा अवदत् यत् त्वं एवं श्रेष्ठं क्रिकेटक्रीडां निरन्तरं कुरु, राज्यस्य देशस्य च नाम प्रकाशय। अस्माकं सर्वेषां कृते एषा हर्षस्य विषयः अस्ति यत् बिहारराज्यस्य सामान्यकुटुम्बस्य कन्या स्वपरिश्रमप्रतिभाभ्यां अन्तर्राष्ट्रीयं स्थानं प्राप्तवती। राज्यसरकारः ‘मेडल लाओ नौकरी पाओ’ योजनायाः अन्तर्गतं पदकविजेतृभ्यः प्रतिभाशालीक्रीडकानां कृते सरकारीनियुक्तिं अपि प्रददाति। राज्ये आधुनिकं विश्वस्तरीयं क्रीडासंरचनानिर्माणं क्रियते। सरकारः क्रीडकान् प्रोत्साहयन्ती सर्वाः सुविधाः प्रददाति। त्वं अग्रे गच्छ, सरकारः सर्वथा सहयोगं करिष्यति। त्वं बिहारस्य कन्यानां प्रेरणा असि, वयं तव उज्ज्वलभविष्यस्य कामनां कुर्मः।

क्रीडिका अनु कुमारी मुख्यमन्त्रिणे प्रतीकचिह्नरूपेण क्रिकेटदण्डं च कन्दुकं च अर्पितवती। सा मुख्यमन्त्रिणं धन्यवादं दत्त्वा अवदत् यत् भवतः सहयोगेन वयं सर्वे अग्रे गच्छामः। राज्यसरकारः क्रीडकान् प्रोत्साहयन्ती सर्वसहाय्यं प्रददाति। वयं सर्वे अतीव प्रसन्नाः स्मः। बिहारराज्ये क्रीडासंरचनायाः उत्तमः विकासः अभवत्, यस्य लाभः क्रीडकान् प्राप्नोति। देशे सर्वत्र क्रीडाक्षेत्रे बिहारस्य प्रशंसा भवति, येन अस्माभिः गौरवं अनुभूयते। बहिर्देशात् आगताः क्रीडकाः अपि बिहारस्य स्तुतिं कुर्वन्ति। मुख्यमन्त्रिणः कार्याणां सर्वत्र प्रशंसा भवति।

अनु कुमारी बिहारराज्यस्य बक्सरजिलान्तर्गतस्य सिमरीथानाक्षेत्रस्य मुकुन्दपुरग्रामस्य निवासी साधारणपरिवारस्य कन्या अस्ति। तस्याः पिता श्री सोहन चौधरी अवदत् यत् अनु बाल्यादेव परिश्रमी लग्नशीला च आसीत्। तस्याः क्रीडाप्रतिभां बिहार क्रिकेट संघेन ज्ञात्वा तस्यै क्रीडनस्य अवसरः प्रदत्तः। ततः परं सा न पुनः पृष्ठतः अपश्यत्, अपितु राष्ट्रियदले चयनिता अभवत्। सा उत्तमं गेंदनिक्षेपणं करोति। प्रथमनेत्रहीनमहिला टी 20 विश्वकप स्पर्धायां तया उत्कृष्टं गेंदनिक्षेपणं कृत्वा भारतदेशस्य विजयाय महत्त्वपूर्णा भूमिका निर्व्यूढा।

---------------

हिन्दुस्थान समाचार