चतुःषु संभागेषु षट्त्सु सेक्टरस्थलेषु आयोजिता महादेवस्य फाल्गुनी मेला, सुरक्षा व्यवस्था संजाता दृढा
बाराबंकी, 06 फ़रवरीमासः (हि.स.)। महाशिवरात्र्याः अवसरस्य निमित्तं महादेवे आयोज्यमानस्य फाल्गुनीमेलायाः सुरक्षाव्यवस्थायाः कृते प्रशासनद्वारा अत्यन्तं कठोराः प्रबन्धाः कृताः सन्ति। सम्पूर्णं मेलाक्षेत्रं ड्रोनक्यामेरा सीसीटीवीक्यामेरा तथा पुलिसनिगर
फ़ोटो


बाराबंकी, 06 फ़रवरीमासः (हि.स.)।

महाशिवरात्र्याः अवसरस्य निमित्तं महादेवे आयोज्यमानस्य फाल्गुनीमेलायाः सुरक्षाव्यवस्थायाः कृते प्रशासनद्वारा अत्यन्तं कठोराः प्रबन्धाः कृताः सन्ति। सम्पूर्णं मेलाक्षेत्रं ड्रोनक्यामेरा सीसीटीवीक्यामेरा तथा पुलिसनिगराण्या अधीनं भविष्यति।

रामनगरथानाध्यक्षः अनिलकुमारपाण्डेय अवदत् यत् मेलाक्षेत्रं चतुर्षु जोनभागेषु अष्टसु सेक्टरभागेषु च विभक्तम् अस्ति। सुरक्षाव्यवस्थार्थं सप्त क्षेत्राधिकारी एकादश थानाध्यक्षाः त्रिंशत् निरीक्षकाः त्रयस्त्रिंशदधिकशतं उपनिरीक्षकाः सप्त महिला उपनिरीक्षकाः चतुश्शताधिकपञ्चाशत् प्रधानकांस्टेबलाः शतं महिला कांस्टेबलाः एकशतपञ्चदश होमगार्डाः च नियुक्ताः सन्ति।

यातायातव्यवस्थार्थं सप्त ट्रैफिक उपनिरीक्षकाः सप्ततिः ट्रैफिकसिपाहयः च नियोजिताः सन्ति। सम्पूर्णस्य मेलायाः निगराण्यर्थं शताधिकाः सीसीटीवीक्यामेराः बहुसंख्याकाः ड्रोनक्यामेराः च उपयुज्यन्ते।

द्वे पीएसीकम्पनी बमविस्फोटननिरोधदलम् अग्निशमनदलम् च अपि मेलाक्षेत्रे तैनातं कृतम् अस्ति। आरक्षितपुलिसदलेन सह अनेकाः एम्बुलेन्सवाहनानि अपि व्यवस्थापितानि सन्ति। महादेवमेलायाः अभरणतालाबे बोहानियातालाबे च पीएसी गोताखोरदलस्य मोटरनौकाः अपि तैनाताः सन्ति।

किञ्चित् पुलिसचलदलानि अपि नियोजितानि सन्ति, ये सम्पूर्णं मेलाक्षेत्रं भ्रमन्तः सर्वासु परिस्थितिषु सतर्कदृष्टिं स्थापयिष्यन्ति, येन कस्यापि दुर्घटनायाः शीघ्रं समाधानं कर्तुं शक्येत।

मेलायाः चतुर्दिक्षु वाहनस्थापनस्थानानि पार्किंगस्थलानि व्यवस्थापितानि सन्ति, यत्र लघुस्थूलवाहनानि स्थाप्यन्ते। सर्वेषु मार्गेषु अवरोधकद्वाराणि स्थापितानि सन्ति, तेषां परे कस्यापि वाहनस्य गमनं न अनुमन्यते।

सर्वेषु जोनभागेषु सेक्टरभागेषु च पुलिसाधिकारिभिः सह जोनलमजिस्ट्रेट् सेक्टरमजिस्ट्रेट् च अपि नियुक्ताः सन्ति। जोनभागस्य संचालनं उपजिलाधिकारी तथा क्षेत्राधिकारी करिष्यतः, सेक्टरभागस्य संचालनं प्रभारी निरीक्षकः तहसीलदारः नायबतहसीलदारः च करिष्यन्ति।

जिलाधिकारी पुलिसअधीक्षकश्च मुख्यालयात् एव सुरक्षाव्यवस्थां निरीक्षिष्यतः। तदतिरिक्तं अपरजिलाधिकारी अतिरिक्तपुलिसअधीक्षकश्च अपि मेलाक्षेत्रे जिलाधिकारिणा नियुक्तौ स्तः।

---------------

हिन्दुस्थान समाचार