Enter your Email Address to subscribe to our newsletters


कोरबानगरम्, ०६ फेब्रुवरीमासः (हि.स.)। छत्तीसगढराज्यस्य कोरबा–जनपदेन “स्वच्छता–महासंकल्पेन” इतिहासः रचितः। अस्य अभियानस्य अन्तर्गतं एकस्यां होरायां १० सहस्राधिकैः जनैः हस्ताक्षराणि कृत्वा विश्व–अभिलेखः स्थापितः।
कोरबा–जनपदेन शुक्रवासरे स्वच्छता–क्षेत्रे एका ऐतिहासिकी उपलब्धिः प्राप्ता। अनेन न केवलं राज्यस्तरे, अपि तु राष्ट्रीय–अन्ताराष्ट्रियस्तरेऽपि स्वकीयं विशिष्टं परिचयं स्थापितमभवत्। नगर–निगम–कोरबाद्वारा आयोजितस्य “स्वच्छता–महासंकल्प–हस्ताक्षर अभियानस्य” अन्तर्गतं केवलं एकस्यां होरायां १० सहस्राधिकैः नागरिकैः हस्ताक्षराणि कृतानि, येन ‘गोल्डन बुक ऑफ वर्ल्ड रिकॉर्ड्स्’ इत्यत्र कोरबा–जनपदस्य नामाङ्कनम् अभवत्। अनेन उपलब्धिना उत्तराखण्डराज्यस्य पूर्व–अभिलेखः अपि अतिक्रान्तः।
नगर–निगम–कोरबया स्वच्छतां जन–आन्दोलनस्य रूपेण विकसितुं अस्य विशेष–अभियानस्य आयोजनं कृतम्। अस्यान्तर्गतं अद्य शुक्रवासरे नगरे २८० मीटर–दीर्घं विशालं विज्ञापनम् अपि स्थापितम्, यस्मिन् सामान्य–नागरिकैः सह विद्यालय–महाविद्यालय–छात्रैः, सामाजिक–संस्थाः प्रतिनिधिभिः तथा जनप्रतिनिधिभिः स्वच्छतायां स्वीयां प्रतिबद्धतां दर्शयन्तः हस्ताक्षराणि कृतानि। जनानां व्यापकः उत्साहपूर्णेन सहभागेन एतत् सिद्धं यत् स्वच्छता न केवलं प्रशासनस्य, अपि तु समाजस्य सामूहिकं दायित्वं भवति।
उल्लेखनीयं यत् नगर–निगम–कोरबा स्वच्छता–क्षेत्रे निरन्तरं नवाचारान् कुर्वन् अस्ति। अद्यतने स्वच्छता–सर्वेक्षणे नगर–निगम–कोरबायै देशस्य अत्यन्त–स्वच्छ–नगराणां सूचीमध्ये अष्टमं स्थानं प्राप्तम्। अस्याः परम्परायाः अन्तर्गतं एषः नूतनः विश्व–अभिलेखः नगरस्य स्वच्छतायां जागरूक–चिन्तनस्य तथा जन–सहभागितायाः प्रमाणं वर्तते।
अस्मिन् अभियाने छत्तीसगढ–शासनस्य उद्योग–मन्त्री लक्ष्मणलाल–देवाङ्गनः, महापौरः सञ्जू–देवी–राजपूत:, उपायुक्त: कुणाल–दुदावतः तथा नगर–निगम–आयुक्तः आशुतोष–पाण्डेयः विशेषतया उपस्थिताः आसन्। अतिथयः स्वयं विज्ञापने हस्ताक्षराणि कृत्वा नागरिकान् स्वच्छतां स्वीकर्तुं प्रेरितवन्तः। आयोजन–स्थले सहस्रशः जनानां स्वच्छता–शपथापि कारिता।
उद्योग–मन्त्री लक्ष्मणलाल–देवाङ्गनः अस्य अवसरस्य कोरबायाः कृते ऐतिहासिकत्वं प्रतिपादयन् अवदत् यत् एषः अभिलेखः केवलं संख्यायाः न, अपि तु जनमानसस्य चिन्तने जातस्य सकारात्मक–परिवर्तनस्य प्रतीकः अस्ति। जन–सहभागितया सह कोरबा आगामि–काले स्वच्छता–क्षेत्रे एकं आदर्श–नगरं रूपेण उद्भविष्यति इति सः अवदत्।
नगर–निगम–आयुक्तः आशुतोष–पाण्डेयः सूचितवान् यत् अस्मात् पूर्वं उत्तराखण्डराज्यस्य पिथौरागढ–जनपदस्य नाम्नि एकस्यां होरायां प्रायः सप्त–सहस्र–पञ्चशतं हस्ताक्षराणां अभिलेखः आसीत्, यं कोरबा–जनपदेन भञ्जयित्वा नूतनः विश्व–अभिलेखः स्थापितः। एषा उपलब्धिः प्रशासनस्य जनतायाश्च संयुक्त–प्रयासानां उत्कृष्टं उदाहरणं सम्मिलितम्।
हिन्दुस्थान समाचार / अंशु गुप्ता