Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०६ फेब्रुवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् शिक्षायाः उद्देश्यं केवलं परीक्षायां उत्तीर्णता नास्ति, अपि तु जीवनस्य सर्वाङ्गीणः विकासः एव। सः विशेषतया अवदत् यत् परीक्षा जीवनस्य अन्तिमं लक्ष्यं न, अपि तु आत्मपरिक्षणस्य एकं साधनम् अस्ति। अङ्काः सर्वस्वं न भवन्ति; वास्तविकं लक्ष्यं तु सन्तुलितस्य, आत्मविश्वासयुक्तस्य तथा सक्षमस्य जीवनस्य निर्माणम् अस्ति। प्रधानमन्त्री अद्य स्वकीय–आवासे आयोजिते ‘परीक्षा–पे–चर्चा’ २०२६ इत्यस्य नवमे संस्करणे देशस्य विविधभागेभ्यः आगतान् विद्यार्थिनः प्रति संवादं कृतवान्।
मणिपुरराज्यस्य एकस्याः छात्रायाः प्रश्नस्य उत्तरं दत्त्वा सः विद्यार्थिनः उपदिष्टवान् यत् यत् अतीतं तत् गणयित्वा समयस्य अपव्ययः न कर्तव्यः। स्वीयं दृष्टान्तं प्रस्तुवन् सः अवदत्— “१७ सेप्टेम्बरदिने मम जन्मदिने एकः नेता दूरभाषे अवदत् यत् अधुना भवान् पञ्चसप्ततिवर्षीयः अभवत्; तदा मया उक्तं यत् अधुनापि पञ्चविंशतिः शेषाः सन्ति।” सः अवदत्— “अतीतं न गणयामि, शेषं जीवनं गणयामि।” विद्यार्थिनः अपि एतादृशीं दृष्टिं स्वीकर्तुं प्रेरितवान्।
अध्ययन–पद्धतिषु भ्रमः
मातापित्रोः तथा शिक्षकाणां भिन्नभिन्नाभिः अध्ययन–पद्धतिभिः उत्पन्ने भ्रम–सम्बन्धे प्रश्ने प्रधानमन्त्री अवदत् यत् एषा स्थितिः सम्पूर्णे जीवने एव भवति। प्रधानमन्त्रीपदे आसीनः अपि जनाः भिन्नरीत्या कार्यं कर्तुं परामर्शं ददति। परामर्शः अवश्यं ग्राह्यः, किन्तु स्वभाव–परिस्थित्योः अनुकूलं यत् तत् एव करणीयम्। “स्वस्य अध्ययन–पद्धत्यां पूर्णः विश्वासः भवतु, अन्यैः दत्तान् विचारान् श्रोतुं, विचारयितुं च आवश्यकम्; परन्तु अनुभवेन एव स्वीकर्तव्यम्” इति सः अवदत्।
“महत्त्वपूर्ण–प्रश्नेषु” अतिनिर्भरता
प्रधानमन्त्री बोर्ड् तथा विद्यालय–परीक्षाणां सिद्ध्यर्थं पूर्ववर्षीय–प्रश्नपत्रेषु तथाकथितेषु “महत्त्वपूर्ण–प्रश्नेषु” च अतिनिर्भरता–विषये विद्यार्थिनः सावधानं कृतवान्। सः अवदत् यत् सीमित–पद्धत्यां एव अध्ययनं कृत्वा प्रश्नपत्रं कठिनं प्रतीतं भवति, यद्यपि तत् पाठ्यक्रमात् बहिः न भवति। उत्तमाः शिक्षकाः ते एव भवन्ति ये सम्पूर्णं पाठ्यक्रमं जीवनस्य अनुभवैः सह संयोज्य अध्यापयन्ति।
क्रीडायाः उदाहरणं दत्त्वा सः अवदत्— यथा केवलं स्कन्ध–मांसपेशीनां विकासेन उत्तमः कन्दुकक्षेपक: न भवति, तथैव अध्ययनस्य क्षेत्रे अपि सर्वाङ्गीण–सज्जा आवश्यकी। शरीरं, मनः, निद्रा, आहारः— सर्वेषां सन्तुलनम् आवश्यकम्।
एकाग्रता–भ्रंशः स्मृतिदोषश्च
अध्ययनकाले एकाग्रताया: अभावः तथा विस्मरण–समस्या विषये प्रधानमन्त्री व्यावहारिकं परामर्शं दत्तवान्। सः अवदत् यत् छात्राः स्वत: दुर्बलतरान् अध्यापयन्तु तथा स्वत: श्रेष्ठेभ्यः मार्गदर्शनं गृह्णीयुः। एतेन द्विगुणः लाभः भवति— बोधः दृढः भवति, आत्मविश्वासः अपि वर्धते।
बोर्ड्–तथा प्रतियोगी–परीक्षयोः संयुक्त–सज्जा
द्वादशकक्षायाः छात्रैः पृष्टे प्रश्ने प्रधानमन्त्री अवदत् यत् प्राथमिकता बोर्ड–परीक्षायै एव दातव्या। यदि छात्राः पाठ्यक्रमं गाम्भीर्येण आत्मसात् कुर्वन्ति, तर्हि प्रतियोगी–परीक्षाः स्वयमेव सुलभाः भवन्ति।
परीक्षा–काले व्याकुलतात् दोषाः
परीक्षा–काले भीत्या तथा व्याकुलतया जातेषु दोषेषु प्रधानमन्त्री सरलां विधिं अवदत्— प्रश्नपत्रं प्राप्य त्रिंशत्–क्षणान् यावत् शान्ततया उपविश्य गम्भीरं श्वसनं करणीयम्। एतेन मनः स्थिरं भवति।
स्वप्नान् कर्मणा संयोजयन्तु
स्वप्नविषये प्रधानमन्त्री स्पष्टतया अवदत्— स्वप्नं न द्रष्टव्यम् इति एक: अपराध:, परन्तु केवलं स्वप्न–गणनया किञ्चित् न सिद्ध्यति। स्वप्नाः कर्मणा संयोक्तव्याः।महतां जीवनी–पाठनस्य महत्त्वम् महतां व्यक्तीनां जीवनचरित्र–पाठनस्य परामर्शं दत्त्वा सः अवदत् यत् एतेन ज्ञायते यत् महान्तः अपि साधारणेभ्यः परिस्थितिभ्यः एव अग्रे गतवन्तः।
विकसित–भारताय व्यक्तिगत–संकल्पः
प्रधानमन्त्री विद्यार्थिनः विकसित–भारत–निर्माणे सहभागितायै आह्वानं कृत्वा अवदत् यत् २०४७ तमे वर्षे एते एव छात्राः देशस्य सर्वाधिकं सक्रियाः नागरिकाः भविष्यन्ति। स्वदेशी–आचरणं, स्वच्छता, अनुशासनं च दैनिक–जीवने स्वीकरणीयम् इति सः अवदत्।
एआइ–तन्त्रज्ञानस्य विवेकपूर्ण–उपयोगः
कृत्रिम–बुद्धिमत्ता (एआइ) विषये सः अवदत् यत् एआइ महान् शिक्षकः अस्ति, किन्तु विवेकपूर्णः उपयोगः आवश्यकः।अन्ते प्रधानमन्त्री विद्यार्थिभ्य: सन्देशं दत्तवान्— परीक्षां उत्सववत् स्वीकरोतु, स्वात्मनि विश्वासं कुर्वन्तु, सत्यं आत्मविश्वासं च जीवनस्य केन्द्रे स्थापयन्तु।
सः अवदत्— “शिक्षा परीक्षा–निमित्तं न, अपि तु जीवन–निमित्तम् अस्ति; परीक्षा आत्मपरिचयस्य अवसरः एव।”‘परीक्षा–पे–चर्चा’ कार्यक्रमस्य अग्रिम: भागः ९ फेब्रुवरीमासे प्रातः १० वादने प्रसारितः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता