प्रधानमन्त्री–श्रीनरेन्द्रमोदिनः ‘परीक्षा–पे–चर्चा’ कार्यक्रमः अद्य आयोज्यते, मध्यप्रदेशस्य सर्वेषु विद्यालयेषु अस्य कार्यक्रमस्य सरलं प्रसारणम् भविष्यति
भोपालनगरम्, ०६ फेब्रुवरीमासः (हि.स.)। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य शुक्रवासरे देशस्य विद्यार्थिभिः सह ‘परीक्षा–पे–चर्चा’ कार्यक्रमे संवादं करिष्यति। परीक्षाकाले विद्यार्थीनां मनसि उत्पद्यमानानां शङ्कानां समाधानं कृत्वा, सकारात्मक–चिन्तनेन सह
पीएम मोदी का परीक्षा पे चर्चा कार्यक्रम आज


भोपालनगरम्, ०६ फेब्रुवरीमासः (हि.स.)। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य शुक्रवासरे देशस्य विद्यार्थिभिः सह ‘परीक्षा–पे–चर्चा’ कार्यक्रमे संवादं करिष्यति। परीक्षाकाले विद्यार्थीनां मनसि उत्पद्यमानानां शङ्कानां समाधानं कृत्वा, सकारात्मक–चिन्तनेन सह परीक्षा–समर्पणाय तान् प्रेरयिष्यति।

जनसम्पर्क–अधिकारी सुनीलवर्मा अवदत् यत् ‘परीक्षा–पे–चर्चा’ इत्यस्य राष्ट्रियं आयोजनम् अद्य शुक्रवासरे एव भविष्यति। प्रदेशस्य सर्वेषु विद्यालयेषु अपि अस्य कार्यक्रमस्य आयोजनं क्रियते। राज्यस्तरीयः कार्यक्रमः राजधान्या: भोपालस्य शासकीय–सुभाष–उत्कृष्ट–विद्यालये भविष्यति। विद्यालय–शिक्षा–मन्त्री उदयप्रतापसिंहः नरसिंहपुर–जनपदे चावरपाठा–विकासखण्डस्य तेंदूखेडा–ग्रामे स्थिते शासकीय–कन्या–उच्चतर–माध्यमिक–विद्यालये विद्यार्थीनां मध्ये उपस्थितः भूत्वा कार्यक्रमस्य सरल–प्रसारणे सहभागितां करिष्यति।

तेन उक्तं यत् प्रधानमन्त्री मोदी वर्षे २०१८ तः आरभ्य परीक्षाजन्य–चिन्ताया: निवारणाय विद्यार्थिभिः सह संवादं कुर्वन् आगच्छति। अस्य वर्षस्य कार्यक्रम: नवमं संस्करणम् अस्ति। कार्यक्रमः प्रातः १० वादनात् नवदिल्ली–नगरे आयोजितः भवति। अस्मिन् कार्यक्रमे प्रधानमन्त्री मोदी विद्यार्थीनां विविधाः शङ्काः निराकर्तुं प्रयतिष्यति। कार्यक्रमस्य सरलं प्रसारणं विविधेषु संचार–माध्यमेषु भविष्यति। दूरदर्शने, डीडी–नेशनल्, डीडी–न्यूज्, डीडी–इण्डिया, ऑल्–इण्डिया–रेडियो इत्यादिषु सर्वेषु, पीएमओ–वेबसाइट् mygov.in, यूट्यूब्, एमओई, फेसबुक्–लाइव, स्वयंप्रभा–चैनल (एमओई), दीक्षा–चैनल (एमओई) इत्यादिषु तथा विविधेषु रेडियो–चैनलेषु, नेटफ्लिक्स्, जिओ–हॉट–स्टार्, अमेजन–प्राइम्–वीडियो इत्यादिषु अपि सरल–प्रसारणं भविष्यति। अन्ये निजी–चैनल-इत्यादय: अपि कार्यक्रमस्य सरलं प्रसारणं करिष्यन्ति।

‘परीक्षा–पे–चर्चा’ इत्यस्य राज्यस्तरीयः कार्यक्रमः राजधान्या: भोपालस्य सुभाष–उत्कृष्ट–विद्यालये आयोज्यते। अस्मिन् कार्यक्रमे विशिष्ट–जनाः, वरिष्ठ–अधिकारिणः तथा अभिभावकगणः विद्यार्थिभिः सह सरल–प्रसारणे सहभागितां करिष्यन्ति। प्रदेशे ‘परीक्षा–पे–चर्चा’ कार्यक्रमे सहभागितायै गत–१ दिसम्बरमासात् ११ जनवरीमासपर्यन्तं विद्यार्थिभ्यः, अध्यापकेभ्यः तथा अभिभावकेभ्यः ऑनलाइन–पञ्जीकरण–सुविधा प्रदत्ता आसीत्। अस्मिन् मध्यप्रदेशात् कक्षा–षष्ठीतः द्वादशी–पर्यन्तं २२ लक्ष ९५ सहस्राधिकाः विद्यार्थिनः, १ लक्ष २८ सहस्राधिकाः अध्यापकाः तथा १७ सहस्राधिकाः अभिभावकाः सहितं आहत्य २४ लक्षं ४१ सहस्रं ३९० व्यक्तयः सहभागितां कृतवन्तः।

विद्यालय–शिक्षा–विभागेन निर्गतानां निर्देशानां अनुसारं मध्यप्रदेशे अपि राज्य–शैक्षिक–अनुसन्धान–प्रशिक्षण–परिषदि, सर्वेषु जनपद–शैक्षिक–प्रशिक्षण–संस्थासु तथा प्रदेशस्य सर्वेषु शासकीय–अशासकीय–शासन–अनुदान–प्राप्त–विद्यालयेषु ‘परीक्षा–पे–चर्चा’ कार्यक्रमः समारोहपर्वकं आयोजितः भविष्यति। कार्यक्रमे विद्यार्थिनां सजीव–प्रसारणे सहभागिता सुनिश्चिता भविष्यति। प्रदेशस्य विद्यालयेषु दूरदर्शन–प्रसारणस्य अतिरिक्तं, अन्तर्जाल–उपकरणैः (सङ्गणकः, लैपटॉप् इत्यादिभिः) अपि कार्यक्रम–दर्शनस्य व्यवस्था स्थाप्यते। आयोजनस्य सुचारु–व्यवस्थासु विषयेषु समस्तान् उपायुक्तान् तथा क्षेत्र–अधिकारिणः लोक–शिक्षण–सञ्चालकेन निर्देशाः अपि निर्गताः सन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani