Enter your Email Address to subscribe to our newsletters

रायपुरम् 06 फ़रवरीमासः (हि.स.)।
नवा रायपुर नगरे हुतात्मवीर नारायण सिंह स्मारक सह जनजातीयस्वतन्त्रतासंग्रामसेनानी संग्रहालय फेस 2 निर्माणार्थं शीघ्रमेव कार्यप्रक्रिया प्रारभ्यते। तेन सह कन्वेंशन सेन्टरस्य अपि निर्माणं करिष्यते। आदिमजातिविकासविभागस्य प्रमुखसचिवः सोनमणि बोरा अद्य शुक्रवासरे आदिमजाति अनुसन्धान प्रशिक्षण संस्थानस्थिते सभाकक्षे आर्किटेक्ट अभियन्तारः कलाकाराः विभागीयाधिकारिणश्च सह गोष्ठीं कृत्वा कार्ययोजनां निर्मातुं निर्देशान् दत्तवान्।
उल्लेखनीयम् अस्ति यत् छत्तीसगढ़राज्यस्य पञ्चविंशतिवर्षपूर्त्याः रजतजयंतीवर्षे एक नवम्बर दिने राज्योत्सवसमये प्रधानमन्त्री नरेन्द्र मोदी इत्यस्य करकमलैः जनजातीयस्वतन्त्रतासंग्रामसेनानी संग्रहालयस्य शुभारम्भः कृतः। अस्य पूर्वं जनजातीयजीवनशैली परम्पराश्च आधृतस्य संग्रहालयस्य उद्घाटनं मई 2025 मासि मुख्यमंत्री विष्णुदेव साय इत्यनेन कृतम्। एतेषां संग्रहालयानां वर्धमानलोकप्रियतां दृष्ट्वा अधुना शहीद वीर नारायण सिंह आदिवासी स्वतन्त्रतासंग्रामसेनानी संग्रहालय फेस 2 कार्यं शीघ्रं प्रारभ्यते।
प्रमुखसचिवः बोरा गोष्ठ्यां उक्तवान् यत् संग्रहालये कैफेटेरिया गढ़ कलेवा अन्याः दुकानाः च अपि उद्घाटनीयाः सन्ति, अस्य विषये अन्तिमरूपरेखायाः चर्चा कृता। तेन फेस 2 अन्तर्गतं रमणीयउद्यानरचना परिसरस्थस्य नन्दसागरस्य सौन्दर्यीकरणं फॉउंटेन निर्माणं वाहननिवेशनव्यवस्था च विषये विस्तृतचर्चा कृता।
गोष्ठ्याम् आदिमजाति अनुसन्धान प्रशिक्षण संस्थानपरिसरे नवनिर्मितछात्रावासस्य समीपे निर्माणाधीनस्य कन्वेंशन सेन्टरस्य रूपरेखायाः अपि चर्चा कृता। तस्य डिजाइन लेआउट विषये विस्तृतविमर्शं कृत्वा आवश्यकसंशोधनार्थं निर्देशाः प्रदत्ताः। अस्मिन् कन्वेंशनकेंद्रे एकं सभागारम् आर्ट गैलरी प्रदर्शनी कक्षः मीटिंग कक्षः प्रशासनिकभवनं फूड कोर्ट इत्यादीनां व्यवस्था भविष्यति।
गोष्ठ्यां संचालिका टीआरटीआई हिना अनिमेष नेताम उपसचिवः बी के राजपूत अपरसंचालकः संजय गौड़ जितेन्द्र गुप्ता आर एस भोई उपायुक्तः विश्वनाथ रेड्डी कार्यपालनयन्त्री त्रिदीप चक्रवर्ती उपयन्त्री गुप्ता यशवंत राव च आर्किटेक्ट अभियन्तारः कलाकाराः विभागीयाधिकारिणश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार