एसएसबी सुंदर्यां मोटरयानचालनपाठ्यक्रमस्य अकरोत् शुभारम्भम्
अररिया 06 फरवरीमासः(हि.स.)। एसएसबी इति सशस्त्रसीमाबलस्य द्विपञ्चाशत्तमी वाहिनीस्थ डुमरिया बाह्यसीमारक्षिस्थलस्य शुक्रवासरे बेरोजगारयुवकानां रोजगारप्रदानाय मोटरचालनप्रशिक्षणपाठ्यक्रमस्य शुभारम्भं कृतवती। सशस्त्रसीमाबलस्य नागरिककल्याणकार्यक्रमस्य अन
अररिया फोटो:एसएसबी के मोटर ड्राइविंग कोर्स को लेकर प्रशिक्षण सत्र


अररिया 06 फरवरीमासः(हि.स.)।

एसएसबी इति सशस्त्रसीमाबलस्य द्विपञ्चाशत्तमी वाहिनीस्थ डुमरिया बाह्यसीमारक्षिस्थलस्य शुक्रवासरे बेरोजगारयुवकानां रोजगारप्रदानाय मोटरचालनप्रशिक्षणपाठ्यक्रमस्य शुभारम्भं कृतवती। सशस्त्रसीमाबलस्य नागरिककल्याणकार्यक्रमस्य अन्तर्गतं अस्य मोटरचालनपाठ्यक्रमस्य प्रारम्भः कृतः, यतः प्रशिक्षणानन्तरं निर्जीविकाः जनाः समाजस्य मुख्यधारायां संयुज्य कुशलतया वाहनचालनकार्यं कर्तुं समर्थाः स्युः।

एसएसबी द्विपञ्चाशत्तमी वाहिन्याः कमाण्डेण्टः महेन्द्रप्रतापस्य निर्देशनानुसारं आरब्धे अस्मिन् पाठ्यक्रमे पञ्चदशाधिकद्विपञ्चाशत् अर्थात् पञ्चदशाधिकपञ्चाशत् युवकाः उत्साहेन प्रशिक्षणकार्यक्रमे भागं गृहीतवन्तः। प्रशिक्षणकाले यातायातनियमाः सह वाहनचालनस्य सैद्धान्तिकशिक्षणं व्यवहारिकशिक्षणं च प्रदीयते।

हिन्दुस्थान समाचार