Enter your Email Address to subscribe to our newsletters

उज्जैनम्, 06 फ़रवरीमासः (हि.स.)।
महाकालेश्वरमन्दिरे 6 फरवरी दिनाङ्कात् शिवनवरात्रिमहोत्सवस्य शुभारम्भः अभवत्। उत्सवस्य प्रथमदिने शुक्रवासरे परम्परानुसारं सर्वप्रथमं नैवेद्यकक्षे चन्द्रमौलेश्वरस्य पूजनं कृतम्।
ततः पश्चात् कोटेश्वरमहादेवस्य विशेषपूजनम् अभिषेकः आरती च कृता। मध्याह्नसमये एकादश ब्राह्मणैः एकादशनी रुद्राभिषेकपाठः प्रारब्धः।
सायंकाले भगवानं नवीनवस्त्राणि धारयित्वा चन्दनभाङ्गेन श्रृङ्गारः कृतः।
---------------
हिन्दुस्थान समाचार