Enter your Email Address to subscribe to our newsletters

हरिद्वारम्/यमकेश्वरम्, ०६ फेब्रुवरीमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी–आदित्यनाथः शुक्रवासरे अवदत् यत् कदाचित् रामभक्तानां अवमानना क्रियते स्म, सः केवलं रामभक्तानां न, अपि तु भारतस्य परम्परायाः आध्यात्मिक–मूल्यानां च अवमानना आसीत्, येन उत्तरप्रदेशः अराजकतायाः युद्धानां च केन्द्रं जातः।
हरिद्वारे स्वामी–सत्यमित्रानन्द–गिरि–महाराजस्य श्री–विग्रह–प्रतिष्ठापन–समारोहं सम्बोधयन् मुख्यमन्त्री अवदत् यत् पूर्ववर्ती–सर्वकाराणां काले प्रदेशे असामाजिकता चरमसीमां प्राप्तवती। तस्मिन् काले न कन्याः सुरक्षिताः आसन्, न च व्यापारिण:। तेषां सर्वकारे तु परम्परायाः सम्मानसहितं न्यार–व्यवस्था दृढीकृता, यस्य परिणामतः अद्य न युद्धानि दृश्यन्ते, न च योद्धार:।
सः अवदत् यत् अधुना उत्तरप्रदेशे न कर्फ्यू अस्ति, न अराजकता। स्पष्ट–नीतिः दृढा राजनैतिक–इच्छाशक्तिश्च प्रदेशं विकासस्य सुशासनस्य च पथे अग्रे नयन्ति। अयोध्यायां भव्यस्य राम–मन्दिरस्य निर्माणम् अस्य परिवर्तनस्य प्रतीकं वर्तते।योगी–आदित्यनाथः अवदत् यत् आश्रम–पद्धतिः भारतीय–परम्परा च प्रशासनस्य प्रबन्धनस्य च वास्तविकां शिक्षां ददाति। संन्यासी आश्रम–व्यवस्थया अनुशासनं सेवा सुशासनं च शिक्षते, येन प्रशासन–सञ्चालनस्य क्षमता विकसिता भवति।
मुख्यमन्त्री अवदत् यत् माघ–मेलापके अद्यावधि एकविंशतिः कोटित: अधिकाः श्रद्धालवः त्रिवेणी–सङ्गमे स्नानं कृतवन्तः। अयोध्या, काशी, मथुरा–वृन्दावनम्, प्रयागराजः, हरिद्वारः, बदरीनाथः, केदारनाथश्च इदानीं न केवलं धार्मिक–स्थलानि, अपि तु राष्ट्रीय–चेतनायाः केन्द्राणि जातानि इति सः अवदत्।
अनन्तरं पौड़ी–गढ़वाल–जनपदे यमकेश्वर–स्थिते एकस्मिन् अन्तर–महाविद्यालये नवनिर्मित–भवनस्य लोकार्पण–कार्यक्रमे मुख्यमन्त्री अवदत् यत् उत्तराखण्डस्य समग्र–विकासः केवलं भौतिक–साधनैः न, अपि तु संस्कारैः, शिक्षया, सांस्कृतिक–मूल्यानां संरक्षणेन च एव सम्भवः। शैक्षणिक–संस्थाः केवलं पाठ्य–ज्ञानं न दद्यु:, अपि तु संस्कार–कौशल–विकास–जीवन–निर्माणस्य केन्द्राणि भवन्तु इति तेनोक्तम्।
सः अवदत् यत् डबल–इञ्जिन–सर्वकारस्य प्राथमिकता ग्रामीण–क्षेत्रेषु आधुनिक–शैक्षणिक–संरचनायाः विकासः अस्ति, येन गुणवत्तापूर्ण–शिक्षार्थं विद्यार्थिनां पलायनं न भवेत्। गुरुकुल–परम्परायां शिक्षा जीवनस्य सर्वेषु सङ्घर्षेषु विद्यार्थिनं सज्जं करोति; सकारात्मक–चिन्तनं परिश्रमश्च प्रगतये मार्गः इति सः अवदत्।योगी–आदित्यनाथः अवदत् यत् राष्ट्रिय–शिक्षा–नीतिः–२०२० विद्यालयान् कौशल–विकासस्य समग्र–व्यक्तित्व–निर्माणस्य च केन्द्ररूपेण विकसितुं महत्त्वपूर्णं पादं स्थापयति। ग्रामाणाम् आत्मनिर्भरता–प्राप्तये पलायन–निवारणार्थं शिक्षा, नवाचारः, रोजगार–अवसराः च स्थानीय–स्तरे एव विकसितव्याः इति तेन विशेषतया उक्तम्।
विद्यालय–भवनानां उपयोगः प्रतियोगी–परीक्षाणां तयारी–कौशल–विकास–क्रियाकलापेषु अपि कर्तव्यः इति तेन बलं दत्तम्। उभययोः कार्यक्रमयोः रक्षा–मन्त्री राजनाथ–सिंहः, केन्द्रीय–मन्त्री मनोहर–लाल–खट्टरः, उत्तराखण्डस्य मुख्यमन्त्री पुष्कर–सिंह–धामी, हरिद्वार–सांसदः त्रिवेन्द्र–सिंह–रावतः, शिक्षा–मन्त्री धन–सिंह–रावतः, अन्ये जनप्रतिनिधयः, सन्त–समाजस्य प्रमुखाः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता