‘घूसखोर–पण्डित’ चलचित्रस्य निर्देशकं च दलं च प्रति उत्तरप्रदेशे प्राथमिकी–न्याय-पञ्जीकरणम्
लखनऊनगरम्, ०६ फेब्रुवरीमासः (हि.स.)। ओटीटी–मञ्चे प्रचारित–प्रसारितस्य चलचित्रस्य ‘घूसखोर–पण्डित’ इत्यस्य निर्देशकस्य विरुद्धं राजधानी–नगरे कोतवाली–हजरतगञ्ज इति थानायां प्रथम–सूचना–न्याय-प्रतिवेदनम् (एफ़.आई.आर.) पञ्जीकृतम् अस्ति। एषा कार्यवाही समाजे
मुख्यमंत्री योगी आदित्यनाथ


लखनऊनगरम्, ०६ फेब्रुवरीमासः (हि.स.)। ओटीटी–मञ्चे प्रचारित–प्रसारितस्य चलचित्रस्य ‘घूसखोर–पण्डित’ इत्यस्य निर्देशकस्य विरुद्धं राजधानी–नगरे कोतवाली–हजरतगञ्ज इति थानायां प्रथम–सूचना–न्याय-प्रतिवेदनम् (एफ़.आई.आर.) पञ्जीकृतम् अस्ति। एषा कार्यवाही समाजे वैमनस्य–प्रसारणस्य, धार्मिक–जातिगत–भावनानां आहतिं कर्तुं प्रयत्नस्य, तथा शान्ति–व्यवस्थायाः भङ्गस्य आरोपैः कृता।

हजरतगञ्ज–थानाया: प्रभारी–निरीक्षकः विक्रम–सिंहः ओटीटी–मञ्चे नेटफ्लिक्स इत्यत्र प्रचार्यमाणस्य चलचित्रस्य, तथा सामाजिक–माध्यमेषु प्रसारितस्य तस्य सामग्र्या: संज्ञानं गृहीतवान्। तस्य मते ‘घूसखोर–पण्डित’ इत्यस्य चलचित्र–शीर्षकं तथा प्रचारिता सामग्री च प्रथमदृष्ट्या आपत्तिजनका: दृश्यन्ते। एफ़.आई.आर.–मध्ये जातिगत–अपमान–विषये स्पष्टं कृतं यत् चलचित्रस्य नामकरणं विशेषतया एकं समुदायं, जातिविशेषं (ब्राह्मण–समुदायम्) लक्ष्यीकृत्य अपमानयितुं उद्दिष्टम् इव दृश्यते। एतस्मिन् नामकरणे तथा नेटफ्लिक्स–मञ्चे, सामाजिक–माध्यमेषु च प्रचारितेषु संवादेषु समाजस्य विविधेषु वर्गेषु तीव्रा प्रतिक्रिया दृष्टा अस्ति।

चलचित्रस्य नाम्नः सामग्र्यश्च विषये ब्राह्मण–समाजे तथा विविधेषु सामाजिक–सङ्घटनेषु आक्रोशः वर्तते। केचन सङ्घटनानि अस्य विरोधे उग्र–प्रदर्शनानि अपि कुर्वन्ति। अनेन सार्वजनिक–शान्तेः तथा विधि–व्यवस्थायाः प्रभावितस्य आशङ्का वर्धिता आसीत्। परिस्थितेः संवेदनशीलतां दृष्ट्वा आरक्षी–विभागेन तत्क्षणमेव उपायाः स्वीकृताः। एतादृशी सामग्री सामाजिक–व्यवस्थाया: हानिं कर्तुं शक्नोति, यत् कस्यापि सन्दर्भे स्वीकार्यं न भवति।

उक्त–तथ्यानां संवेदनशील–परिस्थितिनां च आलोकनेन हजरतगञ्ज–आरक्षिणा चलचित्रस्य निर्देशकस्य तथा तस्य दलस्य विरुद्धं सुसङ्गत–धारासु प्रथम–सूचना–प्रतिवेदनं पञ्जीकृतम् इति सूचितम्। अनुसन्धान–काले उपलब्ध–साक्ष्येषु, प्रचारित–प्रसारित–सामग्र्य: तथा विधिक–प्रावधानानि आधृत्य अग्रिम–कार्यवाही विधास्यते इति आरक्षी–विभागेन स्पष्टं कृतम्।

हिन्दुस्थान समाचार / Dheeraj Maithani