Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, ०६ फेब्रुवरीमासः (हि.स.) — उत्तरप्रदेश–सर्वकारेण मुख्यमन्त्री–जनता–सेवा–योजनायाः अन्तर्गतं बस–चालक–परिचालकयोः मानदेयस्य वृद्धि निर्णीता। अस्मिन् निर्णये प्रति–किलोमीटरं १४ पणक–वृद्धिः कृता। पूर्वमेव चालक-परिचालकयोः २.१८ रूप्यक/किलोमीटर मानदेयं प्राप्यते स्म यत्, अद्य नवीनं मानदेय २.३२ रूप्यक/किलोमीटर कृतम्।परिवहन–राज्यमन्त्री (स्वतन्त्र–प्रभार) दयाशङ्कर–सिंह अवदत् यत् एषः निर्णय ग्रामीण–क्षेत्रेषु बस–चालक–परिचालकयोः आर्थिक–सबलं प्रदास्यति तथा बस–सेवा सुचारु, सुरक्षिता च भविष्यति। योजनान्तर्गतं संचालितं बस–भाटकं साधारण–बसायानानां अपेक्षया प्राय: २०% न्यूनम् अस्ति, यत् ग्रामीण–यात्रिकेभ्यः प्रत्यक्षं लाभं ददाति।
मुख्यमन्त्री–जनता–सेवा–योजना प्रदेशस्य २० क्षेत्रेषु ३९५ अनुमान्यमार्गेषु २९९ बसयानानाम् संचालनं कुर्वति। एषा योजना ग्रामीण–परिवहनं सशक्तं कर्तुं, शिक्षा-स्वास्थ्य-रोजगार-विपणि–उपलब्धतायाः च वृद्ध्यर्थं प्रभावी–प्रयत्नं अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता